पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९८ [ व्यवहाराध्याय न्ते । तथाहि-लिप्सासूत्रे तृतीये वर्णके द्रव्यार्जननियमानां क्रत्वर्थत्वे स्वत्व मेव न स्यात् । स्वत्वस्यालेोकिकत्वादिति पूर्वपक्षासंभवमाशङ्कय द्रव्यार्जनस्य प्रतिग्रहादिना स्वत्वसाधनत्वं लोकसिद्धमिति पूर्वपक्षः समर्थितो गुरुणाः ननु च दव्यार्जनस्य क्रत्वर्थत्वे स्वत्वमेव न भवतीति’ याग एव न संवर्तत प्रलपितमिदं केनापि ‘अर्जनं स्वत्वं नापादयतीति विप्रतिषिद्धम्’ इति वदता । तथा सिद्धान्तेऽपि स्वत्वस्य लौकिकत्वमङ्गीकृत्यैव विचारप्रयोजनमुक्तम् ‘अतो नियमातिक्रमः पुरुषस्य न क्रतोः' इति । अस्य चार्थ एवं विवृतः--यदा द्रव्या जैननियमानां क्रत्वर्थत्वं तदा नियमार्जितेनैव द्रव्येण क्रतुसिद्धिर्न नियमाति न द्रव्येणेति न पुरुषस्य नियमातिक्रमदोषः पूर्वपक्षे । राद्धान्ते त्वर्जननियमस्य पुरुषार्थत्वात्तदतिक्रमेणार्जितेनापि द्रव्येण क्रतुसिद्धिर्भवति पुरुषस्यैव नियमातिक्रमदोप इति नियमातिक्रमार्जितस्यापि स्वत्वमङ्गी कृतम् । अन्यथा क्रतुसिद्धयभावातू नचैवतावता चेोयदिप्राप्तस्यापि स्वत्वं स्या दिति मन्तव्यम् । लोके तत्र स्वत्वप्रसिद्धयभावात् व्यवहारविसंवादाच । एवं प्रतिग्रहाद्युपायके स्वत्वे लैकिके स्थिते–‘ब्राह्मणस्य प्रतिग्रहादय उपाया क्षत्रियस्य विजितादयः, वैश्यस्य कृप्यादयः, शूद्रस्य शुश्रूपादय:’ इत्यदृष्टार्था नियमाः । रिक्थाद्यस्तु सर्वसाधारणाः–‘स्वामी रिक्थक्रयसंविभागपरिग्रहा धिगमेपु' इत्युक्ताः । तत्राप्रतिबन्धो दायो रिक्थम् । क्रयः प्रसिद्धः । संवेि भागः सप्रतिबन्धो दाय । परिग्रहोऽनन्यपूर्वस्य जलतृणकाष्टादेः स्वीकारः । अधिरासो निध्यादेः प्राप्तिः । एतेषु निमित्तेषु सत्सु स्वामी भवति । ज्ञातेषु ज्ञायते स्वामी । ‘ब्राह्मणस्याधिकं लब्धम्’ इति ब्राह्मणस्य प्रतिग्रहादिना यलुब्ध तदधिकमसाधारणम् । ‘क्षत्रियस्य विजितम्’ इत्यत्राधिकमित्यनुवर्तते । क्षत्रि

  • निविष्टं वैश्यशूद्रयोः' इत्यत्राप्यधि

कमित्यनुवर्तते । वैश्यस्य कृषिगोरक्षादिलब्धं निर्विष्टं तदसाधारणम् । शूद्रस्य द्विजशुश्रूषादिना भृतिरूपेण यलुब्धं तदसाधारणम् । एवमनुलोमजानां प्रति लोमजानां च लोकप्रसिद्धेपु स्वत्वहेतुपु यद्यदसाधारणमुक्त ‘सूतानामश्वसार थ्यम्’ इत्यादि तत्तत्सर्व निविष्टशब्देनोच्यते । सर्वस्यापि भृतिरूपत्वात् ॥ ‘निर्वेशो भृतिभोगयोः' इति त्रिकाण्डीस्मरणात् । तत्तदसाधारणं वेदितव्यम् । यदपि

  • पली दुहितरश्व' इत्यादिस्मरणं तत्रापि स्वामिसंबन्धितया बहुपु दायविभागि

तया प्राप्तेषु लोकप्रसिद्धेऽपि स्वत्वे व्यामोहनिवृत्त्यर्थ स्मरणमिति सर्वमनवद्यम् ॥ यदपि मम स्वमनेनापहृतमिति न बूयात्स्वत्वस्य लोकिकत्व इति तदप्यसत् स्वत्वहेतुभूतक्रयादिसंदेहात्स्वत्वसंदेहोपपत्तेः । विचारप्रयोजनं तु—‘यद्भर्हितेना र्जयन्ति कर्मणा ब्राह्मणा धनम् । तस्योत्सर्गेण शुद्धयन्ति जप्येन तपसैव च ।। इति । शास्रकसमधिगम्ये स्वत्वे गर्हितेनासत्प्रतिग्रहवाणेिज्यादिना लब्धस्य स्वत्व मेव नास्तीति तत्पुत्राणां तदविभाज्यमेव । यदा तु लौकिकं स्वत्वं तदाऽसत्प्रति १ क्रतुसिद्धिांनयमातिक्रमार्जतेन द्रव्येण न क्रतुसिद्धिरिति ध. २ दंष इति पूर्वपक्षे चं. ३ कृतेंयु ख. ४ न विभांज्यमेव ग. ५ खत्वं लौकिकं तद्रा ग