पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दायविभागप्रकरणम् ८] मिताक्षरासहिता १९७ प्रमाणं मानुषं देवमिति भेदेन वर्णितम् अधुना वण्यैते दायविभागो योगमूर्तिना तत्र दायशब्देन यद्धनं स्वामिसंबन्धादेव निमित्तादन्यस्य स्वं भवति तदुच्यते । स च द्विविधः अप्रतिबन्धः सप्रतिबन्धश्च । तत्र पुत्राणां पौत्राणां च पुत्रत्वेन पौत्रत्वेन च पितृधनं पितामहधनं च स्वं भवतीत्यप्रतिबन्धो दायः । पितृव्यभ्रात्रा दीनां तु पुत्राभावे स्वाम्यभावे च स्वं भवतीति सप्रतिबन्धो दाय एव तत्पुत्रा दिष्वप्यूहनीयः । विभागो नाम द्रव्यसमुदायविषयाणामनेकस्वाम्यानां तदेक देशेषु व्यवस्थापनम् । एतदेवाभिप्रेत्योक्तं नारदेन–“विभागोऽर्थस्य पित्र्यस्य तनयैर्यत्र कल्प्यते । दायभाग इति प्रोक्तं व्यवहारपदं बुधै स्येति स्वत्वनिमित्तसंबन्धोपलक्षणम् । तनयैरित्यपि प्रत्यासन्नोपलक्षणम् । इदमिह निरूपणीयम् । कस्मिन्काले कस्य कथं कैश्च विभागः कर्तव्य इति । तत्र कस्मिन्काले कथं कैश्चेति तत्र तत्र श्लोकव्याख्यान एव वक्ष्यते । कस्य विभाग इत्येतावदिह चिन्त्यते । किं विभागात्स्वत्वमुत स्वस्य सतो विभाग इति किं शाखेकसमधिगम्यं स्वत्वमुत प्रमाणान्तरसमधिगम्यमिति तत्र शाखैकसमधिगम्यमिति तावद्युत्तं गौतमवचनात-“स्वामी रिक्थक्रय संविभागपरिग्रहाधिगमेषु ब्राह्मणस्याधिकं लब्धं क्षत्रियस्य विजितं नेिर्विष्टं वै इयशूद्रयोः ॥’ इति । प्रमाणान्तरगम्ये स्वत्वे नेदं वचनमर्थवत्स्यात् नातिदेशे मनुः (८॥३४०)-‘योऽदैत्तादायिनो हस्तालिप्सेत ब्राह्मणो धनम् याजनाध्यापनेनापि यथा स्तनस्तथैव स अदत्तादायिनः सकाशाद्या जनादिद्वारेणापि द्रव्यमर्जयतां दण्डविधानमनुपपत्रं स्यात्स्वत्वस्य लेौकिकत्वे अपिच । लौकिकं चेत्स्वत्वं मम स्वमनेनापहृतमिति त्वात् । अन्यान्यस्य स्वं तेनापहृतमिति नापहर्तुः स्वम् । एवं तर्हि सुवर्णरजः तादिस्वरूपवदस्य वा स्वमन्यस्य वा स्वमिति संशयो न स्यात् । तस्माच्छात्रैक समधिगम्यं स्वत्वमिति । अत्रोच्यते—‘लैौकिकमेव स्वत्वं लैौकिकार्थक्रियासा धनत्वात् व्रीह्यादिवत् । आहवनीयादीनां हि न लौकिकक्रियासा वाहवनीयादीनामपि पाकादिसाधनत्वमस्येव नतत् । नहि तत्राहवनीयादिरूपेण पाकादुिसाधनत्वम् । किं तर्हि प्रत्यक्षाद्विपरिदृश्य इह तु सुवर्णादिरूपेण न क्रयादिसाधनत्वमपि तु स्वत्वेनैव । नहि यस्य यत्स्वं न भवति तत्तस्य क्रयाद्यर्थक्रियां साधयति । अचिव । प्रत्यन्तवासिन मप्यदृष्टशास्रव्यवहाराणां स्वत्वव्यवहारो दृश्यते । क्रयविक्रया दिदर्शनात् । किंच । नियैतोपायकं स्वत्वं लोकसिद्धमेवेति न्यायवेिदो मन्य तथा स्त १ अत्र पुत्रसद्भावः स्वामिसद्भावश्च प्रतिबन्धः तदभावे पितृव्यत्वेन भ्रातृत्वेन च स्वं भवतीति विशेषः ख. घ. पुस्तकयोः. २ द्रव्यस्य व्यवस्थापनं ख. ३ पेत्रस्य ग-घ २४ अदत्तादायिनश्चीरस्य. ५ पि ख. ६ अन्यथास्वं ख. ७ नियतोपाधिकं घ