पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६ याज्ञवल्क्यस्मृतिः।

ड़िवाकस्य । ‘त्वमझे सर्वभूतानाम्’ इति शोध्यस्याश्यभिमत्रणमत्रः । ‘प्रदेशिनीं परीक्षेयुः’ इतिवचनात् प्रदेशिन्यैव मुद्रिकोद्धरणम् ॥ इति तसमाषविधिः ॥ धर्माधर्माख्यदिव्यविधिश्च पितामहेनोक्तः । तथाच–‘अधुना संप्रवक्ष्यामि धर्माधर्मपरीक्षणम् । हन्तृणां याचवमानानां प्रायश्चित्तार्थिनां नृणाम् ।।' इति । हन्तृणामिति साहसाभियोगेषु, याचमानानामिति अर्थाभियोगेषु, प्रायश्चित्तार्थि नामिति पातकाभियोगेपु ।–‘राजतं कारयेद्धर्ममधर्म सीसकायसम्’ इति प्र तिमाविधानं सीसकं वा आयसं वेति ॥ पक्षान्तरमाह-“लिखेन्जें पटे वापि धर्माधर्मी सितासितौ । अभ्युक्ष्य पञ्चगव्येन गन्धमाल्यैः समर्चयेत् ॥ सितपु प्पस्तु धर्मः स्यादधर्मोऽसितपुप्पध्टक् । एवंविधायोपलिख्य पिण्डयोस्तैौ निधा पयेत् ॥ गोमयेन मृदा वापि पिण्डौ कायै समंततः । मृद्भाण्डकेऽनुपहते स्थाप्यौ चानुपलक्षितौ ॥ उपलिसे शुचौ देशे देवब्राह्मणसंनिधौ । आवाहयेत्ततो देवालोकपालांश्च पूर्ववत् ॥ धर्मावाहनपूर्व तु प्रतिज्ञापत्रककं लिखेत् ॥’ ततः यदि पापविमुक्तोऽहं धर्मस्वायातु मे करे । अशुद्धश्चेन्मम करे पापं आयातु धर्मतः ।' इति । अभिशस्तोऽभिमत्रयते–“अभियुक्तम्तयोश्चैकं प्रगृहीताविल म्बितः । धर्मे गृहीते शुद्धः स्यादधमें तु स हीयते ॥ एवं समासतः प्रोक्तं धर्माधर्मपरीक्षणम् ॥’ इति ॥ इति धर्माधर्मदिव्यविधिः ॥ अन्ये च शपथा द्रव्याल्पत्वमहत्त्वविपया जातिविशेषविपयाश्च मन्वादि रुिताः । ते यथा–“निष्के तु सत्यवचनं द्विनिष्के पादलम्भनम् । त्रिकाद वर्वातु पुण्यं स्यात्कोशपानमतः परम् ॥' (मनुः ८। ११३) ‘सत्येन शापयेद्विग्रं क्षत्रियं वाहनायुधैः । गोबीजकाञ्चनैवैश्यं शूद्रं सर्वेस्तु पातकै ॥’ इत्यादयः । अत्र च शुद्धिविभावना मनुनोक्ता (८॥११५) –“न चार्तिमृच्छति क्षिप्र स ज्ञेयः शपथे शुचिः’ इति । आर्तिरपि ‘यस्य नो राजदेविकं व्यसनं जायते घोरम्’ इत्युतैव । कालनियमश्च एकरात्रमारभ्य त्रिरात्रपर्यन्तं त्रिरात्रमारभ्य पञ्चरात्र पर्यन्तम् । एकरात्रप्रभृतित्वं कार्यलाघवगौरवपयालोचनया द्रष्टव्यम् ॥ एवं दिव्यैर्जयपराजयावधारणे दण्डविशेषोऽपि दर्शित: कात्यायने–‘शतार्ध दापयेच्छुद्धमशुद्धो दण्डभाग्भवेत्’ इति । तं दण्डमाह-“विषे तोये हुताशे च तुलाकोशे च तण्डुले । तसमाषकदिव्ये च क्रमाद्दण्डं प्रकल्पयेत् ॥ सहस्र षटशतं चैव तथा पञ्चशतानि च । चतुस्विद्येकमेवं च हीनं हीनेपु कल्पयेत् ॥ इति ॥ निह्नवे भावेितो दद्यादित्युक्तदण्डेनायं दिव्यनिबन्धनो दण्डः समुच्चीयते ॥ [व्यवहाराध्यायः इति दिव्यप्रकरणम् १ पापमायातु ख. २ अस्य पूर्वार्ध-‘यमिद्धो न दहत्यझिरापो नोन्मज्जयन्ति च' इति मनुस्मृतावालोचनीयम्