सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दायविभागप्रकरणम् ८1 मिताक्षरासहिता । ॥ १९९ ग्रहादिलब्धस्यापि स्वत्वात्तत्पुत्राणां तद्विभाज्यमेव तस्योत्सर्गेण शुद्धयन्ति इति प्रायश्चित्तमर्जयितुरेव, तत्पुत्रादीनां तु दायत्वेन स्वत्वमिति न तेषां दोष संबन्धः ॥-‘सस वित्तागमा धम्य दायो लाभः क्रयो जयः । प्रयोगः कर्म योगश्च सत्प्रतिग्रह एव च ॥’ इति (१०॥११५) मनुस्मरणात् इदानीमिदं संदिह्यते-किं विभागात्स्वत्वमुत स्वस्य सतो विभाग इति । तत्र विभागात्स्वत्वमिति तावद्युक्तम् । जातपुत्रस्याधानविधानात् । यदि जन्मनैव स्वत्वं स्यात्तदोत्पन्नस्य पुत्रस्यापि तत्स्वं साधारणमिति द्रव्यसाध्येप्वाधानादिषु पितुरन धिकारः स्यात् । तथा विभागात्प्राकूपितृप्रसादलब्धस्य विभागप्रतिषेधो नोपपद्यते । सर्वानुमत्या दत्तत्वाद्विभागप्रास्यभावात् । यथाह–‘शौर्यभार्याधने चोभे यञ्च विद्याधनं भवेत् । त्रीण्येतान्यविभाज्यानि प्रसादो यश्च पैतृक ॥’ इति ॥ तथा –‘भत्र प्रीतेन यद्दत्तं स्त्रियै तस्मिन्मृतेऽपि तत् । सा यथाकाममश्चीयाद्दद्याद्वा स्थावरादृते ॥’ इति प्रीतिदानवचनं च नोपपद्यते जन्मनैव स्वत्वे । नचव स्थाव रादृते यद्दत्तमिति संबन्धो युक्तो व्यवहितयोजनाप्रसङ्गात् । यदपि-‘मणिमु क्ताप्रवालानां सर्वस्यैव पिता प्रभुः । स्थावरस्य तु सर्वस्य न पिता न पिता महः ॥' तथा–“पितृप्रसादादुज्यन्ते वस्राण्याभरणानि च । स्थावरं तु न भुज्येत प्रसादे सति पैतृके ॥’ इति स्थावरस्य प्रसादेदाने प्रतिषेधवचनं तत्पितामहो पात्तस्थावरविषयम् । अतीते पितामहे तद्धनं पित्रापुत्रयोः साधारणमपि मणि मुक्तादि पितुरेव । स्थावरं तु साधारणमित्यस्मादेव वचनादवगम्यते । तस्मान्न जन्मना स्वत्वं किंतु स्वामिनाशाद्विभागाद्वा स्वस्वम् । अतएव पितुरूध्र्व विभा गात्प्राग्द्रव्यस्वत्वस्य प्रहीणत्वादन्येन गृह्यमाणं न निवार्यत इति चोद्यस्यानव काशः । तथेकपुत्रस्यापि पितृप्रयाणादेव पुत्रस्थ स्त्रमिति न विभागमपेक्षत इति । अत्रोच्यते-लोकप्रसिद्धमेव स्वत्वमित्युक्तम् । लोके च पुत्रादीनां जन्मनैव स्वत्वं प्रसिद्धतरं नापह्नवमर्हति । विभागशब्दश्च बहस्वामिकधनविषयो लोकप्र सिद्धो नान्यदीयैविषयो न प्रहीणविषय ।–‘तैथोत्पत्यैवार्थस्वामित्वं लभेतेत्या चार्याः’ इति गौतमवचनाच्च । “मणिमुक्ताप्रवालानाम्’ इत्यादिवचवर्न च जन्म ना स्वत्वपक्ष एवोपपद्यते । नच पितामहोपात्तस्थावरविषयमिति युक्तम् पिता न पितामहः’ इति वचनात् । पितैामहस्य हि स्वार्जितमपि पुत्रे पौत्रे च सत्यदेयमिति वचनं जन्मना स्वत्वं गमयति । यथा परमते मणिमुक्तावालव स्राभरणादीनां पैतामहानामपि पितुरेव स्वत्वं वचनात्, एवमस्मन्मतेऽपि पित्रार्जितानामप्येतेषां पितुर्दानाधिकारो वचनादित्यविशेषः । यत्तु ‘भत्र ग्रीतेन' इत्यादिविष्णुवचनं स्थावरस्य प्रीतिदानज्ञापनं तत्स्वोपार्जितस्यापि पुत्राद्यभ्यनुज्ञयैवेति व्याख्येयम् । पूर्वोत्तैर्मणिमुक्तादिवचनैः स्थावरव्यतिरिक्त न प्रति ख प्रसाददानप्रति घ. ३ समानमवेि घ ४ प्रसिद्धो ग. ५ न्यदीयधनविषयो घ. ६ तं तथोत्पत्येव ख. ७ पितृपितामहस्य ध. ८ मुक्ता वस्त्राभरणा ख-घ. ९ एतेषां मणिमुक्तादीनं