पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४ याज्ञवल्क्यस्मृतिः।। [व्यवहाराध्यायः शोभने, अस्मात्संशयान्मां विमोचय । हे मातः, यद्यहं पापकृदसत्यवाद्यस्मि ततो माँ त्वमधो नय । अथ शुद्ध सत्यवाद्यमि ततो मामूध्र्व गमयेति । प्राड़िवाकस्य तुलाभिमत्रणमत्रैः स्मृत्यन्तरोक्त अयं तु दिव्यकारिणः । जयपराजयलक्षणं तु मत्रलिङ्गादेवावगम्यत इति न पृथगुक्तम् ॥ धटनिर्माणं पुनरारोहणा द्यर्थसिद्धमेव पितामहनारदादिभिः स्पष्टीकृ । तद्यथा-‘छित्वा तु यज्ञियं वृक्ष यूपवन्मत्रपूर्वकम् । प्रणम्य लोकपालेभ्यस्तुला कार्या मनीषिभिः ॥ मत्रः सौम्यो वानस्पत्यश्छेदने जप्य एव च । चतुरस्रा तुला कार्या दृढा ऋत्ज्बी तथैव च ॥ कटकानि च देयानि त्रिषु स्थानेषु चार्थवत् । चतुर्हस्ता तुला कार्या पादौ चोपरि तत्समौ ॥ अन्तरं तु तयोर्हस्तौ भवेद्ध्यर्धमेव च । हस्तद्वयं निखेयं तु पादयोरुभयोरपि ॥ तोरणे च तथा कार्ये पार्श्वयोरुभयोरपि । धटादुच तरे स्यातां नित्यं दशभिरङ्गुलैः ॥ अवलम्बौ च कर्तव्यौ तोरणाभ्यामधोमुखौ । मृन्मयी सूत्रसंबद्धौ धटमस्तकञ्चुम्बिनी ॥ आङ्झुखो निश्चलः कार्यः शुचौ देशे धटस्तथा । शिक्यद्वयं समासज्य पार्श्वयोरुभयोरपि । प्राङ्मुखान्कल्पयेद्दर्भशि क्ययोरुभयोरपि । पश्चिमे तोलयेत्कर्तृनन्यस्मिन्मृत्तिकां शुभाम् ॥ पिर्टकं पूरयेत्तस्मिन्निष्टकाग्रावपांसुभिः । अत्र च मृत्तिकेष्टकाग्रावपांसूनां विकल्पः । परीक्षका नियोक्तव्यास्तुलामानविशारदाः ॥ वणिजो हेर्मकाराश्च कांस्यकारास्तथैव च । कार्यः परीक्षकैर्नित्यमवलम्बसमो धटः । उदकं च प्रदातव्यं धटस्योपरि पण्डितैः । यस्मिन्न पुवते तोयं स विज्ञेयः समो धट ॥ तोलयित्वा नरं पूर्व पश्चात्तमवतार्य तु । धटं तु कारयेन्नित्यं पताकाध्वजशोभितम् ॥ तत आवाहये द्देवान्विधिनानेन मत्रवित् । वादित्रतूर्यघोपैश्च गन्धमाल्यानुलेपनैः ॥ ड्युखः प्राञ्जलिर्भूत्वा प्राङ्किवाकस्ततो वदेत् । एह्येहि भगवन्धर्म अस्मिन्दिव्ये समा विश ॥ सहितो लोकपालैश्च वस्वादित्यमरुद्रणैः । आवाह्य तु धटे धर्म पश्चाद ङ्गानि विन्यसेत् ॥ इन्द्रं पूर्वे तु संस्थाप्य प्रेतेशं दक्षिणे तथा । वरुणं पश्चिमे भागे कुबेरै चोत्तरे तथा ॥ अझ्यादिलोकपालांश्च कोणभागेपु विन्यसेत् । इन्द्र पीतो यमः श्यामो वरुणः स्फटिकप्रभः ॥ कुबेरस्तु सुवर्णाभो वह्निश्चापि सुव र्णभः । तथैव नित्रैतिः श्यामो वायुधूम्रः प्रशस्यते ॥ ईशानस्तु भवेद्रक्त एवं ध्यायेत्क्रमादिमान् । इन्द्रस्य दक्षिणे पाश्ध वसूनाराधयेडुधः ॥ धैरो धुवस्तथा सोम आपश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिता ॥ देवेशेशानयोर्मध्य आदित्यानां तथा गाणम् । धातार्यमा च मित्रश्च वैरुणोंऽशुर्भ गस्तथा ॥ इन्द्रो विवस्वान्पूषा च पर्जन्यो दशमः स्मृतः । ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः ॥ इत्येते द्वादशादित्या नामभिः परिकीर्तिताः । अझे पश्चिमभागे तु रुद्राणामयनं विदुः ॥ वीरभद्रश्च शम्भुश्च गिरिशश्च महायशाः । १ मत्राः स्मृत्यन्तरोक्ता ग-घ. २ प्रान्तरं ख. ३ निधेयं इति पाठः. ४ पिटकं वंशभाण्ड विशेषः. ५ हेमकारश्च कांस्यकारः ध. ६ प्राञ्जलेिः प्राङ्भुखो भूत्वा घ. ७ ध्रुवोऽध्वरस्तथा सोमः ख. धरो धुवश्च सोमश्च ध. ८ आदित्यानां तथायनं ग. आदित्याराधनं तथा घ ९ वरुणोंऽशो भग ग-घ. १० अझेः पश्चिमदिग्भागे रुद्राणां स्थापनं विदुः ग