पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यप्रकरणम् ७] मेिताक्षरासहिता १८३ स्पृशेत्पुत्रादिमस्तकान् ॥ ततोऽर्धार्धविनाशे हि लौकिक्यश्च क्रियाः स्मृताः । एवं विचारयन्राजा धर्मार्थाभ्यां न हीयते ॥’ इति । ज्ञात्वा संख्या सुवर्णानामेित्यत्र सुवर्णशब्दः “षोडश माषाः सुवर्णः' इत्युक्तपरिमाणवचन । नाशशब्दृश्धात्रा पह्नववचनः । ‘सहस्राद्धरेत्फाल'मेित्यत्र तु तान्त्रिकपणसहस्त्रं बोद्धव्यम् ॥ ननु नृपद्रोहे महापातके चैतानि दिव्यान्युक्तानि, तत्कथं नासहस्राद्धरेत्फाल नृपार्थेष्वभिशापे च वहेयुः शुचयः सदा ॥ ९९ ।। नृपद्रोहे महापातकाभियोगे च सदा द्रव्यसंख्यामनपेक्ष्यैवैतानि दिव्यानि वदेयुः कुर्युरुपवासादिना शुचयः सन्तः । तथा देशविशेषोऽपिनारदेनोक्तः सभारराजकुलद्वारदेवायतनचत्वरे । निधेयो निश्चलः पूज्यो धूपमाल्यानुलेपनैः ॥ इति । निधेयो धटः । व्यवस्था च कात्यायनेनोक्ता–‘इन्द्रस्थानेऽभिशस्तानां महापातकिनां नृणाम् । नृपद्रोहे प्रवृत्तानां राजद्वारे प्रयोजयेत् ॥ प्रातिलोम्य प्रसूतानां दिव्यं देयं चतुष्पथे । अतोऽन्येषु सभामध्ये दिव्यं देयं विदुर्बुधाः ॥ अस्पृश्याधमदासानां म्लेच्छानां पापकारिणाम् । प्रातिलोम्यप्रसूतानां निश्चयो न तु राजनि । तत्प्रसिद्धानि दिव्यानि संशये तेषु निर्दिशेत् ॥’ इति ॥ ९९ ॥ इति दिव्यमातृका ॥ एवं सर्वदिव्योपयोगिनीं दिव्यमातृकामभिधायेदानीं धटादिदिव्यानां प्रयो तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः । प्रतिमानसमीभूतो रेखां कृत्वावतारित ॥ १०० ।। त्वं तुले सत्यधामासेि पुरा देवैर्विनिर्मिता । तत्सत्यं वद कल्याणि संशयान्मां विमोचैय ॥ १०१ ।। यद्यसि पापकृन्मातस्ततो मां त्वमधो नय । शुद्धश्चेद्भमयोध्र्व मां तुलामित्यभिमत्रयेत् ।। १०२ ।। तुलाया धारणं तोलनं ये विदन्ति सुवर्णकारप्रभृतयतैः प्रतिमानेन मृदादिना समीभूतः समीकृतस्तुलामाश्रितोऽधिरूढोभियुक्तोऽभियोक्ता वा दिव्यकारी रेखां कृत्वा येन संनिवेशेन प्रतिमानसमीकरणदशायां शिक्यतलेऽवस्थित स्तस्मिन्पाण्डैलेखेनाङ्कयित्वावतारितस्तुलामभिमन्नयेत्प्रार्थयेतानेन मत्रेण । हे तुले, त्वं सत्यस्य स्थानमसेि । पुरा आदिसृष्टौ देवैर्हिरण्यगर्भप्रभृतिभिर्विनिर्मि तोत्पादिता । तत्तस्मात्सत्यं संदिग्धस्यार्थस्य स्वरूपं वद् दर्शय कल्याणि १ अभिशापेषु ग. २ नृपद्रोहेषु ख. ३ ततोऽन्येषु तु कार्येषु सभामध्ये विदुर्बुधाः ग. ४ म्लेच्छानामपकारिणां ग. ५ दापयेत् ग. ६ विशोधय घ. ७ पाण्डुलेख्येन ख पाण्डुलेखः खडू इति प्रसिद्धः