दिव्यप्रकरणम्, ७ ] मिताक्षरासहिता । १ कोशोऽस्येव ग. तीति युक्तं ध. १.७९ एतानि महाभियोगेष्वेव नान्यत्रेति नियम्यते न पुनरिमान्येव दिव्यानीति । महत्त्वावधिं च वक्ष्यति । नन्वल्पाभियोगेऽपि कोई इष्यते-'कोशमल्पेऽपि दापयेत्’ इति स्मरणात् । सत्यम् । कोशस्य तुलादिषु पाठो न महाभियोगेष्वे वेति नियमार्थः, किंतु सावष्टम्भाभियोगेऽपि प्राप्यर्थः । अन्यथा शङ्काभियोगे एव स्यातू–“अवष्टम्भाभियुक्तानां धटादीनि विनिर्दिशेत् । तण्डुलाश्चैव कोशश्च शङ्कास्वेव न संशयः ॥' इति स्मरणात् ॥ महाभियोगेषु शङ्कितेषु सावष्टम्भेषु चाविशेषेण प्राप्तावपवादमाह शीर्षकस्थेऽभियोक्तरि ॥ ९५ ।। एतानेि तुलादीन्यभियोक्तरि शीर्षकस्थेऽभियुक्तस्य भवन्ति । शीर्षकं शिरो व्यवहारस्य चतुर्थः पादो जयपराजयलक्षणस्तेन च दण्डो लक्ष्यते तत्र तिष्ठतीति शीर्षकस्थः तत्प्रयुक्तदण्डभागित्यर्थ ॥ ९५ ॥
- ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनं’ (व्यवहा० श्रो० ७) इति भाव
प्रतिज्ञावादिन एव "क्रियेति व्यवस्था दर्शिता तदपवादार्थमाह-- रुच्या वान्यतरः कुर्यादितरो वर्तयेच्छिरः । रुच्याभियोक्रभियुक्तयोः परस्परसंप्रतिपत्त्यान्यतरोऽभियुक्तोऽभियोक्ता वा दिव्यं कुर्यात् । इतरोऽभियुक्तोऽभियोक्ता वा शिरः शारीरमर्थदण्डं वा वर्तयेदङ्गी कुर्यात् । अयमभिसन्धिः -न मानुषप्रमाणवद्दिव्यं प्रमाणं भावैकगोचरं अपितु भावाभावावविशेषेण गोचरयति । अतश्च मिथ्योत्तरे प्रत्यवस्कन्दने प्राङ्न्याये वार्थिप्रत्यर्थिनोरन्यतरस्येच्छया दिव्यं भवतीति ॥ अल्पाभियोगे महाभियोगे शङ्कासावष्टम्भयोरप्यविशेषेण कोशो भैवतीत्युक्तं तुलादीनि विषान्तानि तु महाभियोगेष्वेव सावष्टम्भेष्वेवेति च नियमो दर्शितः । तत्रावष्टम्भाभियोगेष्वेवेलयस्यापवादमाह विनापि शीर्षकात्कुर्याच्छ्पद्रोहेऽथ पातके ॥ ९६ ।। राजद्रोहाभिशङ्कायां ब्रह्महत्यादिपातकाभिशङ्कायां च शिरःस्थायेिना वेिनापेि तुलादीनि कुर्यात महाचौर्याभिशङ्कायां च । यथाह-“राजभिः शङ्कितानां च निर्दिष्टानां च दस्युभिः । आत्मशुद्धिपरणां च दिव्यं देयं शिरो विना ॥’ इति । तण्डुलाः पुनरल्पचैौर्यशङ्कायामेव ।–“चौर्ये तु तण्डुला देया नान्यत्रेति विनिश्चयः' इति पितामहवचनात् । तप्तसमाषस्तु महाचौर्याभिशङ्कायामेव चौर्यशङ्काभियुक्तानां तसमाषो विधीयते’ इति स्मरणात् । अन्ये पुन शपथा अल्पार्थविषयाः ।–‘सत्यं वाहनशस्राणि गोबीजकनकानि च । देवतापितृपा दांश्च दत्तानि सुकृतानि च ॥ स्पृशेच्छिरशंसि पुत्राणां दाराणां सुहृदां तथा । २ क्रियाव्यवस्था ख. ३ भावाभावविशेषेणेति सर्वत्र पाठः. ४ प्रव