पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० याज्ञवल्क्यस्मृति [ व्यवहाराध्यायः अभियोगेषु सर्वेषु कोशपानमथापि वा ॥ इत्येते शपथाः प्रोक्ता मनुना स्वल्प कारणे ॥' इति नारदस्मरणात् ॥ यद्यपि मानुषप्रमाणानिर्णेयस्य निर्णायकं यत्त द्दिव्यमेिति लोकप्रसिद्धया शपथानामपि दिव्यत्वं तथापि कालान्तरनिर्णयनि मित्तत्वेन समनन्तरनिर्णधनिमित्तेभ्यो धटादिभ्यो दिव्येभ्यो भेदत्वव्यपदेशो ब्राह्मणपरिव्राजकवत् । कोशस्य तु शपथत्वेऽपि धटादिषु पाठो महाभियोग विषयत्वेनावष्टम्भाभियोगविषयत्वेन च धटादिसाम्यान्नतु समनन्तरनिर्णयनिमि त्तत्वेन । तण्डुलानां तप्तसमाषस्य चव समनन्तरनिर्णयनिमित्तत्वेऽप्यल्पविषयत्वेन शङ्काविषयत्वेन च धटादिवैलक्षण्यातेष्वपाठ इति संतोष्टव्यम् । एतानि च दिव्यानेि शपथाश्च यथासंभवमृणादिषु विवादेपु प्रयोक्तव्यानि । यत्त पिताम हवचनम्—‘स्थावरेषु विवादेषु दिव्यानि परिवर्जयेत्’ इति, तदपि लिखित सामन्तादिसद्भावे दिव्यानि परिवर्जयेदिति व्याख्येयम् । ननु विवादान्तरेष्वपि प्रमाणान्तरसंभवे दिव्यानामनवकाश एव । सत्यम् । ऋत्णादिषु विवादेषु उक्त लक्षणसाक्ष्युपन्यासेऽर्थिना कृतेऽपि प्रत्यर्थी यदि दण्डाभ्युपगमावष्टम्भेन दिव्य मवलम्बते तदा दिव्यमपि भवति । साक्षिणामाशयदोषसंभवाद्दिव्यस्य च निर्दो षत्वेन वस्तुतत्त्वविषयत्वात्तलक्षणत्वाच्च धर्मस्य । यथाह नारद –“तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिणि । देवसाध्ये पौरुषेयीं न लेख्यं वा प्रयोज बेत् ॥’ इति । स्थावरेषु च विवादेषु प्रत्यर्थिना दण्डावष्टम्भेन दिव्यावलम्बने कृतेऽपि सामन्ताद्विदृष्टप्रमाणसद्भावे न दिव्यं ग्राह्यमिति विकल्पनिराकरणार्थ ‘स्थावरेषु विवादेषु' इत्यादिपितामहवचनं नात्यन्तिकदिव्यनिराकरणार्थम् । लिखितसामन्ताद्यभावे स्थावरविवादेष्वनिर्णयप्रसङ्गात् ॥ ९६ ॥ । दिव्ये साधारणविधि सचैलं स्रातमाहूय सूर्योदय उपोषितम् । कारयेत्सर्वदिव्यानि नृपब्राह्मणसंनिधौ ॥ ९७ ।। पूर्वेद्युरुपोषितमुदिते सूर्ये सचैलं स्रातं दिव्यग्राहिणमाहूय नृपस्य सभ्यानां ब्राह्मणानां च संनिधैौ सर्वाणि दिव्यानि कारयेत्प्राड़िवाकः–“त्रिरा त्रोपोषिताय स्युरेकरात्रोषिताय वा । नित्यं दिव्यानि देयानि शुचये चार्दवा ससे ॥’ इत्युपवासविकल्पः पितामहेनोक्तो बलवद्बलवन्महाकायल्पकार्य विषयत्वेन व्यवस्थितो द्रष्टव्यः । उपवासनियमश्च कारयितुः प्रद्विवाकस्यापि

  • दिव्येषु सर्वकार्याणि प्राड़िवाकः समाचरेत् । अध्वरेपु यथाध्वर्युः सोपवासो

नृपाज्ञया ॥’ इति पितामहवचनात् ॥ अत्र यद्यपि सूर्योदय इत्यविशेषेणोक्तं तथापि शिष्टसमाचाराद्भानुवासरे दिव्यानि देयानि । तत्रापि–“पूर्वाहेऽश्मिपरीक्षा स्यात्पूर्वाहे च धटो भवेत् । मध्याहे तु जलं देयं धर्मतत्त्वमभीप्सता ॥ १ साध्येषु ग. सर्वेषु कोशयान ध. २ नारदादि ख-ग . ४ न्तरसद्भावे घ. ५ उक्तलक्षणे घ. ६ माशयेद्दोष घ ३ नन्तरनिमित्तनिर्णयेभ्यो घ