पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८ याज्ञवल्क्य स्मृतः । [ व्यवहाराध्यायः एवं शोधिते पत्रे ऋणे च दातव्ये प्रासे यदा कृत्स्रमेव ऋणं दातुमसमर्थस्तदा किं कर्तव्यमित्यत आह लेख्यस्य पृष्ठेऽभिलिखेद्दत्वा दत्त्वर्णिको धनम् । धनी चोपगतं दद्यात्खहस्तपरिचिह्नितम् ।। ९३ ।। यदाधमर्णिकः सकलमृणं दातुमसमर्थस्तदा शक्तयनुसारेण दत्त्वा पूर्वकृतस्य लेख्यस्य पृष्ठेऽभिलिखेत् एतावन्मया दत्तमिति । उत्तमणों वा उपगतं प्रासं धनं तस्यैव लेख्यस्य पृष्ठ दद्यादभिलिखेत् एतावन्मया लब्धमिति । कथम् । स्वहस्त परिचिह्नितं स्वहस्तलिखिताक्षरचिह्नितम् । यद्वोपगतं प्रवेशपत्रं स्वहस्तलिखित चिह्नितमधमणयोत्तमण दद्यात् ॥ ९३ ।। ऋणे तु कृत्स्न्ने दत्ते लेख्यं किं कर्तव्यमित्यत आह दत्वर्ण पाटयेछेख्यं शुद्धयै वान्यतु कारयेत् । क्रमेण सकृदेव वा कृत्स्मृ णं दत्त्वा पूर्वकृतं लेख्यं पाटयेत् । यदा तु दुर्गदे दावस्थितं लेख्यं नष्टं वा तदा शुद्धयै अधमर्णत्वनिवृत्यर्थमन्यलेख्यं कारयेदुत्त मणेनाधमर्णः । पूर्वोक्तक्रमेणोत्तमण विशुद्धिपत्रमधमणर्णाय दद्यादित्यर्थः । साक्षिके ऋणे कृत्ले दातव्ये किं कर्तव्यमित्यत आह साक्षिमच भवेद्यद्धा तद्दातव्यं ससाक्षिकम् ।। ९४ ।। यतु ससाक्षिकमृणं तत्पूर्वसाक्षिसमक्षमेव दद्यात् ॥ ९४ ॥ इति लेख्यप्रकरणम् । अथ दिव्यप्रकरणम् ७ लिखितसाक्षिभुक्तिलक्षणं त्रिविधं मानुषं प्रमाणमुक्तम् । अथावसरप्रासं दिव्यं प्रमाणमभिधास्यन् तुलायाप इत्यादिभिराद्वैः पञ्चभिः श्लोकैर्दिव्यमातृकां कथयति । तत्र तावद्दिव्यान्युपदिशति तुलाझ्यापो विर्ष कोशो दिव्यानीह विशुद्धये । तुलादीनि कोशान्तानि पञ्च दिव्यानीह धर्मशाखे विशुद्धये संदिग्धस्यार्थस्य संदेहॅनिवृत्तये दातव्यानीति ॥ नन्वैन्यत्रान्यान्यपि तण्डुलादीनि दिव्यानि सन्ति–“धटोऽझिरुदकं चैव विषं कोशस्तथैव च । तण्डुलाचैव दिव्यानि सप्तसमस्तसमाषकः ॥' इति पितामह स्मरणात् । अतः आह-- कथमेतावन्त्येवेत्यत महा १ चोपगतं घ. २ लेिखितपरिचिक्षित ग. ३ उत्तमणे अध ख ४ दिभिरारभ्य घ.

  • ५ संदिग्ध. ६ अन्यत्रान्या ख.