सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लेख्यप्रकरणम् ६.1 मिताक्षरासहिता । १७७ विद्यमानस्य पत्रस्य पूर्वं ये द्रष्टारः साक्षिणस्तैर्दर्शनं व्यवहारपरिसमापनं कार्यम् । यदा तु साक्षिणो न सन्ति तदा दिव्येन निर्णयः कार्य अलेख्यसाक्षिके दैवीं व्यवहारे विनिर्दिशेत्’ इति स्मरणात् । एतच्च जानपदं व्यवस्थापत्रम् । राज कीयमपि व्यवस्थापत्रमीदृशमेव भवति । इयांस्तु विशेष राः स्वहस्त संयुक्तं स्वमुदाचिह्नितं तथा । राजकीयं स्मृतं लेख्यं सर्वेष्वर्थेषु साक्षिमत् ॥ इति । तथान्यदपि राजकीयं जयपत्रकं वृद्धवसिष्ठनोक्तम्-‘यथोपन्यस्तसा व्यार्थसंयुक्तं सोत्तरक्रियम् । सावधारण कं चैव जयपत्रकमिष्यते ॥ प्राङ्किवाका दिहस्ताङ्गं मुद्रितं राजमुद्रया । सिद्धेऽर्थे वादिने दद्याजयिने जयपत्रकम् इति । तथा सभासदोऽपि मैतं मेऽमुकपुत्रस्यति स्वहस्तं दद्यु सभासदश्रव ये तत्र स्मृतिशास्त्रविदः स्थिता थालेख्यविधौ तद्वत्स्वहस्तं दद्युरेव ते ॥ इति स्मरणात् । सभासदां च परस्परानुमतिव्यतिरेकेण न व्यवहारो निःशल्यो। भवति । यथाह नारद् यत्र सभ्यो जनः सर्वः साध्वेतदिति मन्यते । स निःशल्यो विवादः स्यात्सशल्यस्त्वन्यथा भवेत् ध्यमर्थ यच्चतुष्पादान्वितं च यत् । राजमुंद्भान्ि पत्रकमिष्यते ॥’ इति स्मरणात् । यत्र तु हीनता । यथा अन्यवादी क्रिया द्वेषी नोपस्थाता निरुत्तर आहूतप्रपेलायी च हीनः पञ्चविधः स्मृतः ॥' इति । तत्र न जयपत्रकमस्ति अपितु हीनपत्रकमे कालान्तरे दण्डप्राप्यर्थ जयपत्रं तु प्राङ्न्यायविधिसिद्धयर्थमिति विशेषः ॥ ९१ लेख्यसंदेहे निर्णयनिमेित्तान्याह संदिग्धलेख्यशुद्धिः स्यात्स्वहस्तलिखितादिभिः । युक्तिप्राप्तिक्रियाचिह्नसंबन्धागमहेतुभिः ।। ९२ ।। शुद्धमशुद्धं वेति संदिग्धस्य लेख्यस्य शुद्धिः स्वहस्तलिखितादिभिः स्यात् । स्वहस्तेन लिखितं यलेख्यान्तरं तेन शुद्धिः यदि सदृशान्यक्षराणि भवन्ति तदा शुद्धिः स्यादित्यर्थः हस्तलिखितान्तरसंवादा च्छुद्धिरिति । युक्तया प्राप्तिपर्युक्तिप्राप्तिः । देशकालपुरुषाणां द्रव्येण सह संबेन्ध प्राप्तिः । अस्मिन्देशेऽस्मिन्कालेऽस्य पुरुषस्येदं द्रव्यं घटत इति युक्तिप्राप्तिः । क्रिया तत्साक्ष्युपन्यासः । चिह्नमसाधारणं श्रीकारादि । संबन्धोऽर्थिप्रत्यर्थिनो पूर्वमपि परस्परविश्वासेन दानग्रहणादिसंबन्ध । आगामोऽस्यैतावतोऽर्थस्य संभावितः प्राप्युपायः । एते एव हेतवः । एभिर्हेतुभिः संदिग्धलेख्यस्य शुद्धि स्यादित्यन्वयः । यदा तु लेख्यसंदेहे निर्णयो न जायते तदा साक्षिभिर्निर्णय कार्यः । यथाह कात्यायन दूषिते पत्रके वादी तदारूढांस्तु निर्दिशेत इति । साक्षिसंभवविषयमिदं वचनम् । साक्ष्यसंभवविषयं तु हारीतवचनम् न मयैतत्कृतं पत्रं कूटमेतेन कारितम् । अधरीकृत्य तत्पत्रमथो दिव्येन निर्णयः ॥' इति ॥ ९२ ।। १ व्यवहारे ख. २ दत्तं मे ख. ३ मुद्राङ्कितं ग. ४ ग. ५ संबन्धप्राप्तिः ख-ध