पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋऽणादानप्रकरणम् ३ | मिताक्षरासहिता । १४७ १५१ सुरापानेन यत्कृतमृणं कामकृतं स्त्रीव्यसननिमित्तं यूते पराजयनिमित्तं दण्ड शुल्कयोरवशिष्टं वृथादानं धूर्तबन्दिमलादिभ्यो यत्प्रतिज्ञातम्–“धूर्ते बन्दिनि मले च कुवैद्ये कितवे शठे । चाटचारणचैौरेषु दत्तं भवति निष्फलम् ॥ इति स्मरणात् । एतदृणं पित्रा कृतं पुत्रादिः शौण्डिकादिभ्यो न दद्यात् । अत्र दण्डशुल्कावशिष्टकमित्यवशिष्टग्रहणात्सर्व दातव्यमिति न मन्तव्यम् ।

  • दण्डं वा दण्डशेषं वा शुल्कं तच्छेषमेव वा । न दातव्यं तु पुत्रेण यञ्च न

व्यावहारिकम् ॥' इत्यौशनसस्मरणात् । गौतमेनाप्युक्तम्--'मद्यशुल्कथूत कामदण्डान्पुत्रेानाध्यावहेयुः' इति । न पुत्रस्योपरि भवन्तीत्यर्थः । अनेना देयमृणमुक्तम्

  • न पतिः स्त्रीकृतं तथे'त्यस्यापवादमाह--

गापशाण्डकशल्ठूषरजकव्याधयाषताम् । ऋण दद्यात्पतिस्तसां यस्माद्वत्तिस्तदाश्रया ।। ४८ ।। गोपो गोपालः । शौण्डिकः सुराकारः । शैलठूषो नटः । रजको वस्राणां रञ्जकः । व्याधो मृगयुः । एतेषां योषिद्भिर्यदृणं कृतं तत्तत्पतिभिर्देयम् । यस्मात्तेषां वृत्ति जीवनं तदाश्रया योषिदधीना । यस्मादृत्तिस्तदाश्रयेति हेतुव्यपदेशादन्येऽपि ये योषिदधीनजीवनास्तेऽपि योषित्कृतमृणं दद्युरिति गम्यते ॥ ४८ ॥ पतिकृतं भार्या न दद्यादित्यस्यापवादमाह प्रतिपन्नं त्रिया देयं पत्या वा सह यत्कृतम् । स्खयं कृतं वा यदृणं नान्यत्स्त्री दातुमर्हति ।। ४९ ।। मुमूर्षणा प्रवत्स्यता वा पत्या नियुक्तया ऋणदाने यत्प्रतिपन्न तत्पतिकृतमृणं देयम् । यच्च पत्या सह भार्यया ऋणं कृतं तदपि भत्रैभावे भार्यया अपुत्रया देयम् । यच स्वयं कृतं ऋणे तदपि देयम् । ननु प्रतिपन्नादि त्रयं स्त्रिया देय मिति न वक्तव्यम्, संदेहाभावात् । उच्यते–“भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः । यो समधिगच्छन्ति यसैयैते तस्य तद्धनम् ॥’ इति वच नान्निर्धनत्वेन प्रतिपन्नादिष्वदानाशंङ्कायामिदमुच्यते प्रतिपां स्त्रिया देयमित्यादि । नचानेन वचनेन ख्यादीनां निर्धनत्वमभिधीयते । पारतन्यमात्रप्रतिपादनपर त्वात् । एतच्च विभागप्रकरणे स्पष्टीकरिष्यते । नान्यत्स्त्री दातुमर्हतीलेयतत्तर्हि न वक्तव्यम्, विधानेनैवान्यत्र प्रतिषेधसिद्धेः । उच्यते-'प्रतिपन्न स्त्रिया देयं पत्या वा सह यत्कृतम्’ इत्येतयोरपवादार्थमुच्यते । अन्यत्सुराकामादिवचनोपात्तं प्रतिपन्नमपि पत्या सह ॥ ४९ ॥ कृतमपि न देयमिति पुनरपि यदृणं दातव्यं येन च दातव्यं यत्र च काले दातव्यं तत्रितयमाहः पितरि प्रोषिते प्रेते व्यसनाभिप्तेऽपि वा । पुत्रपौत्रैणं देयं निह्नवे साक्षिभावितम् ॥ ५० ॥ १ निर्तृत्तं ख. ग. २पुत्रानध्यावहेयुः ख.ग.३ स्तेषां घ.४ स्वयमेव ख. ५ शंकयेदमुच्यते ध या० १६