पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ याज्ञवल्क्यस्मृतः । [ व्यवहाराध्याय पिता यदि दातव्यमृणमदत्वा प्रेतो दूरदेशं गतोऽचिकित्सनीयव्याध्याद्यभि भूतो वा तदा तत्कृतम्णमाख्यापनेऽवश्यं देयं पुत्रेण पौत्रेण वा पितृधनाभावेऽपि पुत्रत्वेन पौत्रत्वेन च, तत्र क्रमोऽप्ययमेव–“पित्रभावे पुत्रः पुत्राभावे पौत्र इति पुत्रेण पौत्रेण वा निह्नवे कृते आर्थिना साक्ष्यादिभिर्भावितमृणं देयं पुत्रपौत्रै रित्यन्वयः । अत्र पितरि प्रोषित इत्येतावदुक्तम्, कालविशेषस्तु नारदेनोक्तो द्रष्टव्यः–“नार्वाक्संवत्सराशिात्पितरि प्रोषिते सुतः । ऋत्णं दद्यात्पितृव्ये वा ज्येष्ठ भ्रातर्यथापि वा ॥’ इति । प्रेतेऽप्यग्रासव्यवहारकालो न दद्यात् । प्राप्तव्यवहारकालस्तु दद्यात् । सच कालस्तेनैव दर्शितः–‘गर्भस्थैः सदृशो ज्ञेय आष्टमैाद्वत्सराच्छिशुः । बाल आषोडशाद्वर्षात्पौगण्डश्चेति शब्द्यते ॥ परतो यवहारज्ञः स्वतन्त्रः पितरावृते ॥’ इति । यद्यपि पितृमरणादूध्र्व बालोऽपि स्वतन्त्रो जातस्तथापि नर्णभाग्भवति । यथाह –“अप्रासव्यवहारश्चेत्स्वतन्त्रोऽपि हि नर्णभाक् । स्वातन्त्र्यं हि स्मृतं ज्येष्ठ ज्यैष्ठयं गुणवयःकृतम् ॥' इति । तथा आसेधाह्नाननिषेधश्च दृश्यते–“अप्रासव्यवहारश्च दूतो दानोन्मुखो वती । वेिपमस्थाश्च नासेध्या न चैतानाह्वयेन्नप ।।' इति । तस्मात्–“अतः पुत्रेण जातेन स्वार्थमुत्सृज्य यत्त्रत । ऋणात्पिता मोचनीयो यथा नो नरकं बजेत् । ॥ इति । पुत्रेण व्यवहारराज्ञतया जातेन निष्पन्नेनेति व्याख्येयम् । श्राद्धे तु बाल स्याप्यधिकारः–‘न ब्रह्माभिव्याहारयेदन्यत्र स्वधानिनयनात्’ इति गौतम पुत्रपौत्रैरिति बहुवचननिर्देशाद्वहवः पुत्रा यदि विभक्ताः स्वांशानु रूपेण करणं दद्युः । अविभक्ताश्चत्संभूयसमुत्थानेन गुणप्रधानभावेन वर्तमानान प्रधानभूत एव वा दद्यादिति गम्यते । यथाह नारदः–‘अत ऊध्र्व पितु पुत्रा ऋणं दद्युर्यथांशतः । अविभक्ता विभक्ता वा यैस्तां चोद्वहते धुरम् ॥' इति । अत्र च यद्यपि पुत्रपौत्रैर्ण देयमित्यविशेषेणोक्तं तथापि पुत्रेण यथा पिता सवृद्धिदकं ददाति तथैव देयम् । पौत्रेण तु समं मूलमेव दातव्यं न वृद्धिरिति विशेषो ऽवगन्तव्यः । ‘ऋणमात्मीयवत्पित्र्यं देयं पुत्रेर्विभावेितम् । पैतामहं समं देयम देयं तत्सुतस्य तु ।’ इति बृहस्पतिस्मरणात् । अत्र विभावितमेित्यविशेषोपादा नात्साक्षिविभावितमित्यत्र साक्षिग्रहणं प्रमाणोपलक्षणम् । समं यावदृहीतं तावदेव देयं न वृद्धिः । तत्सुतस्य प्रपौत्रस्यादेयमगृहीतधनस्य । एतच्चोत्तरश्लोके स्पष्टीक्रियते ॥ ५० ॥ ऋणापाकरणे ऋत्णी तत्पुत्रः पौत्र इति त्रयः कर्तारो दर्शितास्तेषां च समवाये क्रमोऽपि दर्शितः । इदानीं कर्वन्तरसमवाये च क्रममाह रिक्थग्राह ऋण दाप्यो योषिद्वाहस्तथैव च । पुत्रोऽनन्याश्रितद्रव्यः पुत्रहीनस्य रिक्थिनः ।। ५१ ।। अन्यदीयं द्रव्यमन्यस्य कयाद्विव्यतिरेकेण यत्स्वीयं भवति तद्विक्थम् । १ कृतमृणमवश्यं घ. २ अष्टमात ख. ग. ३ व्याहरेदन्यत्र ख. ४ यस्तावद्वहते ख ५ तथैव ऋणं ख. ग. ६ स्पष्टयिष्यते ख. ग