१५० याज्ञवल्क्यस्मृतिः । ब्राह्मणादिरुत्तमणे हीनजातिं क्षत्रियाद्विजातिं परिक्षीणं निर्धनमृणार्थ ऋण निवृत्त्यर्थं कर्म स्वकर्म स्वजात्यनुरूपं कारयेत् तत्कुटुम्बाविरोधेन । ब्राह्मणास्तु पुनः परिक्षीणो निर्धनः शनैःशनैः यथोदयं यथासंभवमृर्ण दाप्यः । अत्र च । हीनजातिग्रहणं समानजातेरप्युपलक्षणम् । अतश्च समानजातिमपि परिक्षीणां यथोचितं कर्म कारयेत् । ब्राह्मणग्रहणं च श्रयोजातेरुपलक्षणम् । अतश्च क्षत्रि यादिरपि परिक्षीणो वैश्यादेः शनैःशनैदर्दाप्यो यथोद्यम् । एतदेव मना स्पष्टीकृतम् (८।१७७)–‘कर्मणापि समं कुर्याद्धनिकेनाधमर्णिकः । समोऽपकृ शुजातिश्च दद्याच्छेयांस्तु तच्छनैः ॥’ इति । उत्तमणेन समं निवृत्तोत्तमपाधमर्ण व्यपदेशमात्मानमधमर्णः कर्मणा कुर्यादित्यर्थः ॥ ४३ ॥ मध्यस्थस्थापितं न वर्धते-- -- दीयमानं न गृह्णाति प्रयुक्तं यः स्वकं धनम् । मध्यस्थस्थपितं चेत्स्याद्वर्धते न ततः परम् ॥ ४४ ॥ किंच । उपचयार्थ प्रयुक्तं धनं अधमर्णेन दीयमानमुत्तमणों वृद्धिलोभाद्यदि न गृङ्गाति तदाधमर्णेन मध्यभहस्ते स्थापितं यदि स्यात्तदा ततः स्थापनाध्वं न वर्धते । अथ स्थापितमपि याच्यमानो न ददाति ततः पूर्ववद्वर्धत एव ॥ ४४ ॥ इदानीं देयमृणं यदा येन च देयं तदाह अवेिभतैः कुटुम्बार्थे यष्टणं तु कृतं भवेत् । दद्युस्तद्रिक्थिनः प्रेते प्रोषिते वा कुडुम्बिनेि ।। ४५ ।। अविभक्तैर्बहुभिः कुटुम्बाश्रमेकैकेन वा यदृणं कृतं तदृणं कुटुम्बी दद्यात् । तस्मिन्प्रेते प्रोषिते वा तद्विक्थिनः सर्वे दद्युः ॥ ४५ ॥ येन देयमित्यत्र प्रत्युदाहरणमाह न योषित्पतिपुत्राभ्यां न पुत्रेण कृतं पिता । दद्यादृते कुटुम्बार्थान्न पतिः स्त्रीकृतं तथा ।। ४६ ॥ पल्या कृतमृणं योषिद्भायाँ नैव दद्यात् । पुत्रेण कृतं योषिन्माता न दद्यात् । तथा पुत्रेण कृतं पिता न दद्यात् । तथा भार्याकृतं पतिर्न दद्यात् । कुटुम्बार्थादृत इति संर्वशेषः । अतश्च कुटुम्बाथै येन केनापि कृतं तत् कुटुम्बिना देयम् । तदभावे. तद्दायहरैर्देयमित्युक्तमेव ॥ ४६ ॥ पुत्रपौत्रैत्र्ण देयमिति वक्ष्यति तस्य पुरस्तादपवादमाह-- [ व्यवहाराध्यायः १. मृणार्थे. क. ध. २.द्धनेिकायाधमकिः . ३ पितं यत्स्यात् घ . ४ पूर्वे वर्धत एव
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१८०
दिखावट