पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋणादानप्रकरणम्, ३ ] मेितांक्षरासहिता । प्रपन्नमभ्युपगतमधमर्णेन धनं साक्ष्यादिभिर्भवितं वा साधयन्प्रत्याहरन् धर्मादिभिरुपायैरुत्तमणे नृपतेर्न वाच्यो निवारणीयो न भवति । धर्मादयश्धो पाया मनुना दर्शिताः मनुः (८॥४९)–“धर्मेण व्यवहारेण छलेनाचरितेन च । युक्तं साधयेदर्थ पञ्चमेन बलेन च ॥’ इति । धर्मेण प्रीतियुक्तन. सत्यवच नेन । व्यवहारेण साक्षिलेख्येाद्युपायेन । छलेन उत्सवादिव्याजेन भूषणादिग्रह णेन । आचरितेन अभोजनेन । पञ्चमेनोपायेन बलेन निगडबन्धनादिना उप चयार्थे प्रयुक्तं द्रव्यमेतैरुपायैरात्मसात्कुर्यादिति । प्रपन्न साधयन्नर्थे न वाच्य इति वदन् अप्रतिपन्नं साधयन् राज्ञा निवारणीय इति दर्शयति । एतदेव स्पष्टी कृतं कात्यायनेन–“पीडयेद्यो धनी कश्चिदृणिकं न्यायवादिनम् । तस्माद् थर्थात्स हीयेत तत्समं चैामुयाद्दमम् ॥’ इति । यस्तु धर्मादिभिरुपायैः प्रपन्नमर्थ साध्यमानो याच्यमानो नृपं गच्छेद्राजानमभिगम्य साधयन्तमभियुङ्गे स दण्ड्यो भवति, शक्यनुसारेण धनिने तद्धनं दाप्यश्च । राज्ञा दापने च प्रकारा दर्शिताः–“राजा तु स्वामिने विग्रं सान्त्वेनैव प्रदापयेत् । देशाचारेण चान्यांस्तु दुष्टान्संपीड्य दापयेत् ॥ रिक्थिनं सुहृदं वापि छलेनैव प्रदापयेत् ।' इति । साध्य मानो नृपं गच्छन्नित्येतत्स्मृत्याचारव्यपेतेनेत्यस्य प्रत्युदाहरण बाष्द्धव्यम् ॥ ४० ॥ बहुघूत्तमर्णिकेषु युगपत्प्रासेष्वेकोऽधमर्णिकः केन क्रमेण दाप्यो राज्ञेत्यपेक्षित १४९ गृहीतानुक्रमाद्दाप्यो धनिनामधमर्णिकः । दत्त्वा तु ब्राह्मणायैव नृपतेस्तदनन्तरम् ।। ४१ ।। समानजातीयेषु धनिषु येनैव क्रमेण धनं गृहीतं तेनैव क्रमेणाधमर्णिको राज्ञा दाप्यः । भिन्नजातीयेषु तु ब्राह्मणादिक्रमेण ॥ ४१ ॥ यदा पुनरुत्तमण दुर्बलः प्रतिपन्नमर्थ धर्मादिभिरुपायैः साधयितुमशकुवन्राज्ञा साधितार्थो भवति तदाऽधमर्णस्य दण्डमुत्तमर्णस्य च भृतिदानमाह-- राज्ञाधमणैिको दाप्यः साधिताद्दशकं शतम् । पञ्चकं च शतं दाप्यः प्राप्तार्थो द्युत्तमर्णिकः ।। ४२ ।। अधमर्णिको राज्ञा प्रतिपन्नार्थात्साधिताद्दशकं शतं दाप्य । प्रतिपन्नस्य साधि तार्थस्य दशममंशं राजाऽधमणैिकाद्दण्डरूपेण गृह्णीयादित्यर्थः । उत्तमर्णस्तु प्रासार्थः पञ्चकं शंतं भृतिरूपेण दाप्यः । साधितार्थस्य विंशतितम भागमुत्तम पर्णाद्राजा भृत्यर्थ गृह्णीयादित्यर्थः । अप्रतिपन्नार्थसाधने तु दण्डविभागो दर्शित निह्नवे भावितो दद्यातू’ इत्यादिना ॥ ४२ ॥ सधनमधमर्णिकं प्रयुक्तम्, अधुना निर्धनमधमर्णिकं प्रत्याह हीनजातिं: परिक्षीणमृणार्थ कर्म कारयेत् । ब्राह्मणस्तु परिक्षीणः शनैदर्दाप्यो यथोदयम् ।। ४३ ।। १ प्रपत्रं साधयन्नर्थे घ. २ लेखाद्युपन्यासेन घ. ३ प्रानुयात् घ: : :