पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८ याज्ञवल्क्यस्मृतःि । [ व्यवहाराध्यायः अधुना द्रव्यैविशेषे वृद्धिविशेषमाह सन्ततिस्तु पशुस्त्रीणां पशुरुस्त्रीणां सन्ततिरेव बृद्धिः । पशूनां स्त्रीणां पोषणासमर्थस्य तत्पुष्टिसन्तति कामस्य प्रयोगः संभवति । ग्रहणं च क्षीरपरिचयर्थिनः ॥ अधुना प्रयुक्तस्य द्रव्यस्य वृद्धिग्रहणमन्तरेणापि चिरकालावस्थितस्य कस्य द्रव्यस्य क्रियती परा वृद्धिरित्यपेक्षित आह रसस्याष्टगुणा परा । वस्रधान्यहेिरण्यानां चतुस्त्रिद्विगुणा परा ।। ३९ ।। रसस्य तैलधृतादेर्तृद्धिग्रहणमन्तरेण चिरकालावस्थितस्य स्वकृतया वृद्धया वर्धमानस्याष्टगुणा वृद्धिः परा । नातः परं वर्धते । तथा वस्रधान्यहिरण्यानाँ यथासंख्यं चतुर्गुणा त्रिगुणा द्विगुणा वृद्धिः परा । वसिष्ठन तु रसस्य त्रैगुण्यमुक्तम् “द्विगुणं हिरण्यं त्रिगुणं धान्यं । धान्येनैव रसा व्याख्याता पुष्पमूलफलानि च । तुलाध्टर्तमष्टगुणम्’ इति । मनुना तु धान्यस्य पुष्पमूल फलादीनां च पञ्चगुणत्वमुक्तम्--'धान्ये शदे लचे वाहेख नातिक्रामति पञ्च ताम्’ इति । शदः क्षेत्रफलं पुष्पमूलफलादि । लवो मेपोर्णाचमरीकेशादिः । वाह्यो बलीवर्दतुरगादिः । धान्यशदलववाह्यविपया वृद्धिः पञ्चगुणत्वं नाति क्रामतीति । तत्राधमर्णयोग्यतावशेन दुर्भिक्षादिकालवशेन च व्यवस्था द्रष्टव्या । एतञ्च सकृत्प्रयोगे सकृदाहरणे च वेदितव्यम् । पुरुपान्तरसंक्रमणेन प्रयोगान्तर करणे तस्मिन्नेव वा पुरुषे रेकसेकाभ्यां अनेकशः प्रयोगान्तरकरणे सुवर्णादिकं द्वैगुण्याद्यतिक्रम्य पूर्ववद्वर्धते । सकृत्प्रयोगेऽपि प्रतिदिनं प्रतिमासं प्रतिसंवत्सरै वा वृद्धयाहरणेऽधमर्णदेयस्य द्वैगुण्यासंभवात्पूर्वाह्मतवृद्धया सह द्वैगुण्यमतिक्रम्य वर्धत एव । यथाह मनुः (८। १५१)-‘कुसीदवृद्धिद्वैगुण्यं नायेति सकृदाह्मता। ' इति । सकृदाहितेत्यपि पाठोऽस्ति । उपचयार्थ प्रयुक्त द्रव्यं कुसीदं तस्य वृद्धि कुसीदवृद्धिः सा द्वैगुण्यं नात्येति नातिक्रामति । यदि सकृदाहिता सकृत्प्रयुक्ता । पुरुषान्तरसंक्रमणादिना प्रयोगान्तरकरणे द्वैगुण्यमत्येति । सकृदाहृतेति पाठे तु शनैःशनैः प्रतिदिनं प्रतिमासं प्रतिसंवत्सरं वाधमणीदाहृता द्वैगुण्यमत्येतीति व्याख्ययम् । तथा गौतमेनाप्युक्तम्—‘चिरस्थाने द्वैगुण्यं प्रयोगस्य’ इति । अयोगस्येत्येकवचननिर्देशात्प्रयोगान्तरकरणे द्वैगुण्यातिक्रमोऽभिप्रेतः । चिरस्थान इति निर्देशात् शनैःशनैवृद्धिग्रहणे द्वैगुण्यातिक्रमो दर्शितः ॥ ३९ ॥ प्रपन्न साधयन्नर्थ न वाच्यो नृपतेर्भवेत् । साध्यमानो नृपं गच्छेद्दण्ड्यो दाप्यश्च तद्धनम् ॥ ४० ॥ १ विशेषेण ख. ग. २ तुलघृतं त्रितय ख. ग. तृतीयमष्ट घ . ३ वृक्षफलं घ ४ गान्तरीकरणे घ . ५ किंतु मूलवृद्धिद्विगुणैव भवतीति कुछूकः. ६ गच्छन् घ