पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ याज्ञवल्क्यस्मृतिः। [ व्यवहाराध्यायः तत्सुतस्तृतीयो नागमं नापि विशिष्टं भोगमुद्धरेदपेितु क्रमागतं भोगमात्रम् । अनेनापि तृतीयस्य क्रमायातभोगानुद्धरणे दण्डो नागमानुद्धरणे न विशिष्टभो गानुद्धरणे चेत्यभिहितम् । तत्र तयोर्द्धितीयतृतीययोर्भक्तिरेव गरीयसी । तत्रापि द्वितीये गुरुस्तृतीये गरीयसीति विवेक्तव्यम् । त्रिष्वप्यागमानुद्धरणेऽर्थ हानिः समानैव, दण्डे तु विशेष इति तात्पर्यार्थ । उक्तंच हारीतेन–‘आग मस्तु कृतो येन स दण्ड्यस्तमनुद्धरन् । न तत्सुतस्तत्सुतो वा भोग्यैहानिस्तयो रपि ॥’ इति ॥ २८ ॥ अस्मार्तकालोपभोगस्यागमज्ञाननिरपेक्षस्य प्रामाण्यमुक्तं विना पूर्वक्रमागता दित्यत्र तस्यापवादमाह योऽभियुक्तः परेतः स्यात्तस्य रिक्थी तमुद्धरेत् । न तत्र कारणं भुक्तिरागमेन विना कृता ॥ २९ ॥ यदा पुनराहत्रदिरभियुक्तोऽकृतव्यवहारनिर्णय एव परेतः स्यात् परलोकं ' गतो भवेत्तदा तस्य रिक्थी पुत्रादिस्तमागममुद्धरेत् । यस्मात्तत्र तस्मिन्व्यवहारे भुक्तिरागमरहिता साक्ष्यादिभिः साधितापि न प्रमाणम् । पूर्वाभियोगेन भोगस्य सापवादत्वात् । नारदेनाप्युक्तम्—‘तथैररूढविवादस्य प्रेतस्य व्यवहारिणः । पुत्रेण सोऽर्थः संशोध्यो न तं भोगो निवैर्तयेत् ॥' इति ॥ २९ ॥ अनिर्णीतव्यवहारे व्यवहर्तरि प्रेते व्यवहारो न निवर्तत इति स्थितम् । निर्ण तेऽपि व्यवहारे स्थिते च च्यवहर्तरि व्यवहारः कचित्प्रवर्तते कचिन्न प्रवर्तत इति व्यवस्थासिद्धये व्यवहारदर्शिनां बलाबलमाह नृपेणाधिकृताः पूगाः श्रेणयोऽथ कुलानि च । पूर्वं पूर्वे गुरु ज्ञेयं व्यवहारविधौ नृणाम् ।। ३० ।। नृपेण राज्ञा ऑधिकृताः व्यवहारदर्शने नियुक्ताः–“राज्ञा सभासदः कार्या इत्यादिनोक्ताः पूगाः समूहा । भिन्नजातीनां भिन्नवृत्तीनां एकस्थाननिवा सिनां यथा ग्रामनगरादयः । श्रेणयो नानाजातीनामेकजातीयकमपजीविनाँ संघाताः । यथा हेर्डाबुकादीनां ताम्बूलिककुंविन्दचर्मकारादीनां च । कुलानि ज्ञातिसंबन्धिबन्धूनां समूहाः । एतेषां नृपाधिकृतादीनां चतुर्णा पूर्व पूर्व यद्यत्पूर्व पठितं तत्तदुरु बलवज्ज्ञेयं वेदितव्यम् । नृणां व्यवहर्तृणां व्यवहारविधौ व्यव हारदर्शनकायें एतदुक्तं भवति । नृपाधिकृतैर्निणते व्यवहारे पराजितस्य यद्यप्य संतोषः कुदृष्टिबुद्धया भवति तथापि न पूगादिषु पुनव्र्यवहारो भवति । एवं पूगनिर्णतेऽपि न श्रेण्यादिगमनम् । तथा श्रेणिनिर्णीते कुलगमनं न भवति । कुलनिर्णते तु श्रेण्यादिगमनं भवति । श्रेणिनिर्णीते पूगादिगमनम् । पूगनिर्णीते १ भोग्येति । भोग्यहानिरर्थहानिस्तदनुद्धरणे तयोर्द्धितीयतृतीययोरित्यर्थ . २ तथाशब्दः पूर्वसमुच्चये । नवारूढः. ख. ग. ३ निवारयेत् घ . ४ अधिकृताः प्राइविवाकादयः देशान्तरं गत्वा प्रस्थाप्य वाऽश्वविक्रेतारो हेडाबुकाः. ६ कुविन्दस्तन्तुवाय