असाधारणव्य०मा०प्र०]. मिताक्षरासहिता । १४१ अयमभिसंधिः-स्वस्वत्वनिवृत्तिः परस्वत्वापादनं च दानम् । परस्वत्वापादनं च परो यदि स्वीकरोति तदा संपद्यते नान्यथा । स्वीकारश्च त्रिविधः । मानसो वाचिकः कायिकश्चेति । तत्र मानसो ममेदमिति संकल्परूपः । वाचिकस्तु ममेदमित्याद्यभिव्याहारोलेखी सविकल्पकः प्रत्ययः । कायिकः पुनरुपादानाभि मर्शनादिरूपोऽनेकविधः । तत्र च नियमः स्मर्यते-'दद्यात्कृष्णाजिनं पृष्ठ गाँ पुच्छे करिणं करे । केसरेषु तथैवाश्चै दासीं शिरसि दापयेत् ॥’ इति । आश्व लायनोऽप्याह-‘अनुमत्रैयेत प्राण्यभिमृशेद्वप्राणि कन्यां च' इति । तत्र हिरण्यवस्रादावुदकदानानन्तरमेवोपादानादिसंभवात् त्रिविधोऽपि स्वीकारः संप द्यते । क्षेत्रादौ पुनः फलोपभोगव्यतिरेकेण कायेिकस्वीकारासंभवात्स्वल्पेनाप्यु पभोगेन भवितव्यमन्यथा दानक्रयादेः संपूर्णता न भवतीति फलोपभोग लक्षणकायिकस्वीकारविकल आगमो दुर्बलो भवति तत्सहितादागमात् । एतच्च द्वयोः पूर्वापरकालापरिज्ञाने, पूर्वापरकालपरिज्ञाने तु विगुणोऽपि पूर्वका लागाम एव बलीयानिति । अथवा–“लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिवि धम्’ इत्युक्तं एतेषां समवाये कुत्र कस्य वा प्राबल्यमित्यत्रेदमुपतिष्ठते “आगमोऽभ्यधिको भोगाद्विना पूर्वक्रमागतात् । आगमेऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥’ इति । अयभर्थः-आद्ये पुरुषे साक्षिभिभौवित आगमो भोगादप्यधिको बलवान् । पूर्वकमागताद्भोगाद्विना । स पुनः पूर्वक्रमागतो भोगाश्चतुर्थपुरुषे लिखितेन भावितादागमाद्धलवान् । मेध्यमे तु भोगरहितादा गमात्स्तोकभोगसहितोऽप्यागमो बलवानिति । एतदेव नारदेन स्पष्टीकृतम् “आदौ तु कारणं दानं मध्ये भुक्तिस्तु सागमा । कारणं भुक्तिरेवैका संतता या विरन्तनी ॥’ इति ॥ २७ ॥ पश्यतोऽबुवत इत्यत्र विंशतिवर्षेपभोगादूध्र्व भूमेर्धनस्यापि दशवर्षेपभो गादूध्र्व फलानुसरणं न भवतीत्युक्तम्, तत्र फलानुसरणवद्दण्डानुसरणमपि न भविष्यतीत्याशङ्का पुरुषव्यवस्थया प्रामाण्यव्यवस्थया च दण्डव्यवख्थां दुशै यितुमाह आगमस्तु कृतो येन सोऽभियुक्तस्तमुद्धरेत् । न तत्सुतस्तत्सुतो चा भुक्तिस्तत्र गरीयसी ।। २८ ।। येन पुरुषेण भूम्यादेरागमः स्वीकारः कृतः स पुरुषः कुतस्ते क्षेत्रादिकमित्य भियुक्तस्तस्यागामं प्रतिग्रहँादिकं लिखितादिभिरुद्धरेत् भैावयेत् । अनेन चाद्यस्य पुरुषस्यागममनुद्धरतो दण्ड इत्युक्तं भवति । तत्सुतो द्वितीयोऽभियुक्तो नाग ममुद्धरेत्, किंतु अविच्छिन्ना–ऽप्रतिरव-समक्ष-भोगम् । अनेन चागममनुद्धरतो द्वितीयस्य न दण्डोऽपेितु विशिष्टं भोगमनुद्धरतो दण्ड इति प्रतिपादितम् । १ कायिकस्तु ख . २ करे शुण्डादण्डे. ३ प्रतिग्राह्यो यदा प्राणी बलवान् वतुं सम्म थैस्तदा तं प्रतिग्राहं प्रतिग्रहीता अनुमन्त्रयेत. ४ सहितादागमाभावात् ख. घ . ५ केवल भोगस्य स्मार्तकालत्वात् स्वत्वे अप्रामाण्यात. ६ प्रतिग्रहादेरिति ख . ७ प्रतिपादयेत्.
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१७१
दिखावट