सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ याज्ञवल्क्यस्मृति [व्यवहाराध्याय एव भोग इत्युपेक्षायामपि न पुरुषापराध । सीन्नश्चिरकृततुषाङ्गारादिचिहै । सुसाध्यत्वादुपेक्षा संभवति । उपनिक्षेपोपनिध्योर्मुक्तः प्रतिषिद्धत्वात्, प्रति षेधातिक्रमोपभोगे च सोदयफललाभादुपेक्षोपपत्तिः । जडबालयोर्जडत्वाद्धाल त्वादुपेक्षा युतैव । राज्ञो बहुकार्यव्याकुलत्वात् स्त्रीणामज्ञानादप्रागल्भ्याञ्च । श्रोत्रियस्याध्ययनाध्यापनतदर्थविचारानुष्ठानव्याकुलत् वादुपेक्षा युक्तकव । तस्मादा ध्यादिषु सर्वत्रोपेक्षाकारणसंभवात्समक्षभोगे निराक्रोशे च न कदाचिदपि आध्यादिपु दण्डविशेषप्रतिपादनार्थमाह आध्यादीनां विहर्तारं धनिने दापयेद्धनम् । दण्डं च तत्समं राज्ञे शक्तयपेक्षमथापि वा ॥ २६ ॥ आध्यादीनां श्रोत्रियद्रव्यपर्यन्तानां चिरकालोपभोगबलेनापहर्तारं विवादा स्पदीभूतं धनं स्वामिने दापयेदित्यनुवादः । दण्डं च तत्समं विवादास्पदीभूत द्रव्यसमं राज्ञे दापयेदिति विधि । यद्यपि गृहक्षेत्रादिषु तत्समो दण्डो न संभवति तथापि–“मर्यादायाः प्रभेदे च सीमातिक्रमणे तथा’ इत्यादिर्वक्ष्य माणो दण्डो द्रष्टव्यः । अथ तत्समदण्डेनापहर्तुर्दमनं न भवति बहधनत्वेन तदा शक्त्यपेक्षं धनं दापयेत् । यावता तस्य दपोपशमो भवति तावद्दापयेत् । दण्डो दमनादित्याहुस्तेनादान्तान्दमयेत्’ इति दण्डग्रहणस्य दमनार्थत्वात् । यस्य तु तत्सममपि द्रव्यं नास्ति सोऽपि यावता पीड्यते तावद्दाप्यः । यस्य पुन किमपि धनं नास्ति असँौ धिग्दण्डादिना दमनीय । तथाच मनुः–‘धिग्दण्डं प्रथमं कुर्याद्वाग्दण्डं तदनन्तरम् । तृतीयं धनदण्डं तु वधदण्डमतः परम् ॥’ इति । वधदण्डोऽपि शारीरो ब्राह्मणव्यतिरिक्तानां दंशधा दर्शितः । तथाह मनु (८॥१२५)–“दश स्थानानि दण्डस्य मनुः स्वायंभुवोऽब्रवीत् । त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणो बजेत् ॥ उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् । चक्षुर्नसा च कणैौं च धनं देहस्तथैव च ॥’ इति । एतेषां यन्निमित्तापराधस्त त्रैवोपस्थादौ निग्रहः कार्य इति द्रष्टव्यम् । कर्म वा कारयितव्यो बन्धनागारं वा प्रवेशयितव्यः । यथोक्तं कात्यायनेन-“धनदानासहं बुट्टा स्वाधीनं कर्म कारयेत् । अशक्तौ बन्धनागारं प्रवेश्यो ब्राह्मणादृते ॥' इति । ब्राह्मणस्य पुनर्दू व्याभावे कर्मवियोगादीनि प्रयोज्यानि । यथाह गौतमः–‘कैर्मवियोगवि रख्यापननिर्वासनाङ्ककरणादीन्यवृत्तौ ।' इति । नारदेनापि–‘वधः सर्वस्व हरणं पुरान्निर्वासनाङ्कने । तैदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहसः ॥ आविशेषेण १ सोदयफलभावात् घ . २ विधिः प्राडिवाकादेरिति शेष . ३ धिग्दण्डो धिगिति “कुत्सनम्, वाग्दण्डः परुषवाक्यवचनात्मकः, धनदण्डो धनापहार , वधदण्डः शारीरो बन्घरोधादिजीवितयोगान्तः. ४ व्यतिरिक्तानां तु इति पाठ . ५ नवधा इतिकचित्पाठः ६ अक्षतः शारीरसकलवधदण्डरहितः. ७ अवृत्तौ दुराचारे स्वव्यापारनिरोधान्यायप्रख्या पनादीनि. ८ वधः प्राणवियोगानुकूलो व्यापारः. ९ यदङ्गकृतोऽपराधस्तच्छेद