पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

असाधारणव्य०मा०प्र०२]मिताक्षरासहिता । १३७ आध्यादिष्वपि विंशतेरूध्र्व पत्रदोषोद्भावननिराकरणस्य संमत्वेनाधिसीमेत्याद्यप वादासंभवात् । यथाह कात्यायनः-‘अथ विंशतिवर्षाणि आधिर्भुक्तः सुनि श्चितः । तेन लेख्येन तत्सिद्धिलेंख्यदोषविवर्जिता ॥' तथा–सीमाविवादे निर्णीते सीमापत्रं विधीयते । तस्य दोषाः प्रवक्तव्या यावद्वर्षाणि विंशति इति ! एतेन धनस्य दशवार्षिकीत्येतदपि प्रत्युक्तम् । तस्मादस्य श्लोकस्य सैत्योऽर्थे वक्तव्यः । उच्यते-भूमेर्धनस्य च फलहानिरिहै विवक्षिता न वस्तुहानिनौपि व्यवहारहानिः । तथाहि-निराक्रोशं विंशतिवर्षोंपभोगादूध्र्व यद्यपि स्वामी न्यायतः क्षेत्रं लभते तथापि फैलानुसरणं लभते । अप्रतिषेधलक्षणात्स्वाप न राधादस्माच्च वचनात् । परोक्षभोगे तु विंशतेरूध्र्वमपि फलानुसरणं लभत एव पश्यत इति वचनात् । प्रत्यक्षभोगे च साक्रोशे, अबुवत इति वचनात् । विंशतेः प्राक् प्रत्यक्षे निराक्रोशे च लभते विंशतिग्रहणात् । ननु तदुत्पन्नस्यापि पफलस्य स्वत्वात्तद्धानिरनुपपत्रैव, बाढम् । तस्य स्वरूपाविनाशेन तथैवावस्थाने तदुत्पन्नपूगपनसवृक्षादीनां यत्पुनस्तदुत्पन्नमुपभोगान्नष्टं तत्र स्वरूपना शादेव स्वत्वनाशे –“अनागमं तु यो भुङ्गे बहून्यब्दशतान्यपि । चौरदण्डेन तं पापं दण्डयेत्पृथिवीपति ॥’ इत्यनेन वचनेन निष्क्रयरूपेण गणयित्वा चौरवः तत्समं द्रव्यदानं प्रेासं, निर्विशतिवार्षिकोत्यनेनापोद्यते । राजदण्डः पुनरस्त्येव विंशतेरूध्र्वमपि, अँनागमोपभोगादपवादाभावाच्च. । तस्मात्स्वास्युपेक्षालक्षण स्वापराधादस्माच्च वचनाद्विंशतेरूध्र्व फलं नष्टं न लभत इति स्थितम् । एतेन धनस्य दशवार्षिकीत्येतदपि व्याख्यातम् ॥ २४ ॥ अस्यापवादमाह आधिसीमोपनिक्षेपजडबालधनैर्विना । तथोपनिधिराजस्रीश्रोत्रियाणां धनैरपि ॥ २५ ॥ आधिश्च सीमा च उपनिक्षेपश्च आधिसीमोपनिक्षेपाः । जडश्च बालश्च जड बालौ तयोर्धने जडबालधने आधिसीमोपनिक्षेपाश्च जडबालधने च आधिसी मोपनिक्षेपजडबालधनानि तैर्विना । उपनिक्षेपो नाम रूपसंख्याप्रदर्शनेन रक्ष णाथै परस्य हस्ते निहितं द्रव्यम् । यथाह नारदः–“स्वं द्रव्यं यत्र विस्रम्भा ििन्नक्षिपत्यविशङ्कितः । निक्षेपो नाम तत्प्रोक्तं व्यवहारपदं बुधै ॥’ इति । उप निधानमुपनिधिः । आध्यादिषु पश्यतोऽबुवतोऽपि भूमेर्विशतेरूध्र्व धनस्य च दशभ्यो वर्षेभ्य ऊध्र्वमप्युपचयहानिर्न भवति । पुरुषापराधस्य तथाविधस्या भावात्, उपेक्षाकारणस्य तैत्र तत्र. संभवात् । तथाहि-आधेरधित्वोपाधिक १ समत्वेनापवादासंभवातू ख . २ सत्योऽर्थो निर्तुष्टोऽर्थः. सभ्योऽन्योथों ग. पाठ ३ इह पश्यत इत्यत्र वचने. ४ तावत्पर्यन्तं ततस्तेन लब्धेत्यादिः. ५ प्राप्त, तत् द्रव्य दानम्. ६ अपोद्यते बाध्यते. ७ स्वत्वहेतुः प्रतिग्रहक्रयादिरागमः. ८ तस्योपनिधि ग १ यत् स्वं द्रव्यं यत्र परहस्त विस्रम्भाद्विश्वासान्निक्षिपति. १० उथचयहानिः फलहानि ११ तत्र तत्र आध्यादिषु. १२ आधित्वनिमित्तकः इति पाठ