पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

असाधारणव्य०मा०प्र०२] मिताक्षरासहेिता सर्वेषामेव दण्डविधिः स्मृतः ॥' इत्युक्त्वोक्तम्—‘वधादृते ब्राह्मणस्य ब्राह्मणोऽर्हति इति ।–‘शिरसो मुण्डनं दण्डस्तस्य निर्वासनं पुरातू । ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन च ॥’ इति ॥ अङ्कने च व्यवस्था दर्शिता गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः । स्तेये तु श्धपदं कार्य ब्रह्महण्यशिरा पुमान् ।।' इति । यत्तु-“चक्षुर्निरोधेो ब्राह्मणस्य’ इत्यापस्तम्बवचनं, ब्राह्मणस्य पुरान्निर्वासनसमये वस्त्रादिना चक्षुर्निरोधः कर्तव्य इति तस्यार्थो न तु चक्षुः अक्षतो ब्राह्मणो व्रजेत्’ ‘न शारीरो ब्राह्मणे दण्डः’ इत्यादिमनु गौतमाद्विवचनविरोधादित्यलं प्रसङ्गेन ॥ २६ स्वत्वाव्यभिचारित्वेन भोगस्य स्वत्वे प्रामाण्यमुक्तम् । भोगमात्रस्य स्वत्व व्यभिचारित्वात्कीदृशो भोग्रः प्रमाणमित्यत आह आगमोऽभ्यधिको भोगाद्विना पूर्वक्रमागतात् स्वत्वहेतुः प्रतिग्रहक्रयादिः आगमः । स भोगाद्प्यधिको बलीयान् । स्वत्व बोधने भोगस्यागमसापेक्षत्वात् । यथाह नारद् आगमेन विशुद्धेन भोगो याति प्रमाणताम् । अविशुद्धागमो भोगाः प्रामाण्यं नैव गच्छति इति । नञ्च भोगमात्रात्स्वत्वावगम परकीयस्याप्यपहारादिनोपभोगसंभवात् । अत एव–‘भोगं केवैलतो यस्तु कीर्तयेन्नागमं. कचित् । भोगच्छलापदेशेन विज्ञेय स तु तस्करः ॥’ इति स्मर्यते । अतश्च सागमो दीर्घकालो निरन्तरो निरा क्रोशः प्रत्यर्थिप्रत्यक्षश्चेति पञ्चविशेषणयुक्तो भोगः प्रमाणमित्युक्तं भवति । तथाच स्मर्यते-‘संगमो दीर्घकालश्चाविच्छेदोऽपैरवोज्झितः । प्रत्यर्थिसंनि धानोऽपि परिभोग्गोऽपि पञ्धा इति । कविचागमननिरपेक्षस्यापि भोगस्य प्रामाण्यमित्याह--चेिना पूर्वक्रमामातादिति । पूर्वेषां पित्रादीनां त्रयाणां क्रम पूर्वेक्रमः तेनागतो यो भोगस्तस्माद्विना आगमोऽभ्यधिक इति संबन्धः । सें पुनरागमादभ्यधिकः आगमनिरपेक्षः प्र तत्राप्यागमोऽज्ञातनिस् पेक्षों न सत्तानिरपेक्षः । सत्ता तु तेनैवैवगम्यत इति बोद्धव्यम् । विना पूर्व क्रमागतादित्येतच्चाऽस्मार्तकालप्रदर्शनार्थम् । आगमोऽभ्यधिको भोगादिति । अतश्च स्मरणयोग्ये काले योग्यानुपलब्ध्या आगामाभावः निश्चयसंभवादागमज्ञानसापेक्षयैव भोगस्य प्रामाण्यम् । अस्मातें तु काले योग्यैः नुपलब्ध्यभावेनागमाभावनिश्चयासं एव संततो भोग प्रमाणम् । एतदेव स्पष्टीकृतं कात्यायनेन–‘मार्तकाले क्रिया भूमेः सागमा भुक्तिरिष्यते । अस्मार्तेऽनुममाभावास्ऋमाभिपुरुषागताः t' इति ! सालैश्च कालो १३९ या० १५ न वध उतं पूर्वे २४ क्षेोके पश्यतोऽनुवत इत्यत्र ४. सागमो विशुद्धागमसहितः, अविच्छेदो निरन्तस् अपस्वज्झितो निरस्तुक्रोश ५ अपरिकर्जित, इति पाठः पूर्वक्रमागतो भोगः ७ अभावे न