पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
साधारणव्य ०मा०प्र०१ ]
१२१
मिताक्षरासहिता ।

पराजित इति । उक्तंच कात्यायनेन-‘आचारेणावसन्नोऽपि पुनर्लखयते यदि । सोऽभिधेयो जितः पूर्वं प्राङ्न्यायस्तु स उच् क्षणे स्थिते उत्तरलक्षणरहितानामुत्तरवद्वभासमानानामुत्तराभासत्वमर्थ स्पष्टीकृतं च स्मृत्यन्तरे–“संदिग्धमन्यत्प्रकृतादत्यल्पमतिभूरि च । पक्षे कदेशव्याप्यन्यत्तथा नैवोत्तरं भवेत् ॥ यद्वयस्तपदमव्यापि निगूढार्थ तथाकु व्याख्यागम्यमसारं च नोत्तरं स्वार्थसिद्धये ।।' इति । तत्र संदिग्धं सुवर्णशतमनेन गृहीतमित्युक्त सत्यं गृहीतं सुवर्णशतं माषशतं वेति । प्रकृता दन्यत्-यथा सुवर्णशताभियोगे पणशतं धारयामीति । अत्यल्पं-सुवर्णशता भियोगे पैञ्चशतं धारयामीति । अतिभूरि-सुवर्णशताभियोगे द्विशतं धारया मीति । पझैकदेशव्यापि-हिरण्यवस्राद्यभियोगे हिरण्यं गृहीतं नैन्यदिति । ॐयस्तपदं-ऋणादानाभियोगे पदान्तरेणोत्तरम्, यथा सुवर्णशताभियोगे अ नेनाहं ताडित इति । अव्यापि-देशस्थानादिविशेषणव्यापि , यथा मध्यदेशे वाराणस्यां पूर्वस्यां दिशि क्षेत्रमनेनापहृतमिति पूर्वपक्षे लिखिते, क्षेत्रमपहृत मिति । निगूढार्थ—यथा सुवर्णशताभियोगे किमृहमेवासै धारयामीत्यत्र ध्वै निना प्राडिवावकः सभ्यो वा अर्थी वा अन्यसै धारयतीति सूचयतीति निगू ढार्थम् । आकुलं पूर्वापरविरुद्धम्-यथा सुवर्णशताभियोगे कृते सत्यं गृहीतं न धारयामीति । व्याख्यागम्यं-दुःश्लिष्टविभक्तिसमाससाध्याहाराभिधानेन व्याख्यागम्यम्, अदेशभाषाभिधानेन वा । यथा सुवर्णशतविषये पितृऋणा गृहीतशतवचनात् सुवर्णानां पितुर्न जानामीति । अत्र गृहीतशतस्य पितुर्वचनात्सुवर्णानां शतं गृहीतमिति न जानामीति । असारं-न्यायविरुद्धम् यथा सुवर्णशतमनेन वृद्धया गृहीतं बृद्धिरेव दत्ता न मूलमित्यभियोगे सत्यं वृद्धिर्दत्ता न मूलं गृहीतमिति । उत्तरमित्येकवचननिर्देशादुत्तराणां संकरो नि रस्तः । यथाह कात्यायनः–‘पझैकदेशे यत्सत्यमेकदेशे च कारणम् । मिथ्या चैवैकदेशे च संकरात्तदनुत्तरम् ।।' इति । अनुत्तरत्वे च कारणं तेनैवोक्तम्

  • नचैकस्मिन्विवादे तु क्रिया स्याद्वादिनोर्द्धयो । नचार्थसिद्धिरुभयोर्न चैकत्र

क्रियाद्वयम् ॥' इति । मिथ्याकारणोत्तरयोः संकरे अर्थिप्रत्यर्थिनोर्द्धयोरपि क्रिया प्राप्तोति-“मिथ्या क्रिया पूर्ववादे कैारणे प्रतिवादिनि' इति स्मरणात् । तदु भयमेकस्मिन्व्यवहारे विरुद्धम् । यथा सुवर्ण रूपकशतं चानेन गृहीतमित्यभि योगे सुवर्ण न गृहीतं रूपकशतं गृहीतं प्रतिदत्तं चेति । करणप्राङ्न्यायसंकरे

तु प्रत्यर्थिन एव क्रियाद्वयम्–“ङ्न्यायकारणोक्तौ तु प्रत्यथ निर्दिशेत्क्रियाम्'


१ व्यवहारेण पराजितोऽपि. २ अर्धन्यूनतयात्यल्पत्वमस्य. ३ अन्यत् पक्षकदेशव्यापि चेत्यर्थः. ४ व्यस्तपदं असंबद्धपदकम्. ५ विन्ध्यहिमाचलयोर्मध्यं मध्यदेशः. ६ अन्तर्भावि तण्यर्थमिदम्. ७ ध्वनिना किमादिबोध्येन. ८ न वादिद्वयपरत्वमिति सूचयितुं मिथ्येति । मिथ्योत्तरे इत्यर्थः । पूर्ववादे कर्मण्यण पूर्ववादिनीत्यर्थः. ९ कारणे कारणोत्तरे. १० तयो र्मिथः संकरे त्वित्यर्थः. ११ तयोरुक्तावित्यर्थः । नेदं प्रत्येकपरम् । करणांशे “कारणे प्रति वादिनि' इत्यनेन सिद्धत्वात् । तस्मात्सांकर्यपरमेवेदम् । अतएव समासनिर्देशसंगतिरपि