सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२२
[ व्यवहाराध्यायः
याज्ञवल्क्यस्मृतिः ।

इति । यथा सुवर्ण गृहीतं प्रतिदत्तं रूपके व्यवहारमार्गेण पराजित इति । अत्र जयपत्रेण वा प्राङ्न्यायदर्शिभिर्वा भैावयितव्यम् । कारणोक्तौ तु साक्षिलेख्यंदिभिर्भावयितव्यमिति विरोधः । एवमुक्तस्त्रयसंकरऽपि द्रष्टव्यम् । यथानेन सुवर्ण रूपकशतं वस्त्राणि च गृहीतानीत्यभियोगे सत्यं सुवर्ण गृहीतं प्रतिर्दत्तं रूपकशतं न गृहीतं, वस्त्रविषये तु पूर्वन्यायेन पराजित इति । एवं चतुःसंकरेपि । एतेषां चानुत्तरत्वं यौगपद्येन तस्यांशस्य तेन तेन विनाऽसिद्धे क्रमेणोत्तरत्वमेव । वैकमश्वार्थिनः प्रत्यर्थिनः सभ्यानां चेच्छया भवति । यत्र पुनरुभयोः संकरस्तत्र यस्य प्रभूतार्थविषयत्वं तैत्क्रियोपादानेन पूर्वं व्यवहार प्रवर्तयितव्यः पश्चादल्पविषयोत्तरोपादानेन च व्यवहारो द्रष्टव्य यत्र च संप्रतिपत्तेरुत्तरान्तरस्य च संकरस्तत्रोत्तरान्तरोपादा व्यवहारो द्रष्टव्य संप्रतिपत्तौ क्रियाभावात् ॥ यथा हारीतेन–“मिथ्योत्तरं कारणं च स्यातामेकत्र चेदुभे । सत्यं वापि सहान्येन तत्र ग्राह्य किमुत्तरम् ॥’ इत्युक्त्वोक्तम्-‘प्रभू तार्थविषयं यत्र वा स्यात्क्रियाफलम् । उत्तरं तत्र तज्ज्ञेयमसंकीर्णमतोऽन्यथा । संकीर्ण भवतीति शेष । शेपैपेक्षया ऐच्छिकक्रमं भवतीत्यर्थः । तत्र प्रभूतार्थ यथा अनेन सुवर्ण रूपकशतं वस्राणि च गृहीतानीत्यभियोगे सुवर्ण रूपक शतं च न गृहीतं वस्राणि तु गृहीतानि प्रतिदत्तानि चेति । अत्र मिथ्योत्तरस्य प्रभूतविषयत्वादर्थिनः क्रियामादाय प्रथमं व्यवहारः प्रवर्तयितव्यः पश्चाद्वस्रवेि षयो व्यवहारः । एवं मिथ्याप्राइन्यायसंकरे कारणप्राङ्न्यायसंकरे च योजनीयम् । तथा तस्मिन्नेवाभियोगे सत्यं सुवर्ण रूपकशतं च गृहीतं प्रति दास्यामि वस्राणि तु न गृहीतानि गृहीतानि प्रतिदत्तानीति वा वस्रवेिपये पूर्व पराजित इति चोत्तरे संप्रतिपत्तेभूरिविषयत्वेऽपि तत्र क्रियाभावान्मिथ्याद्युत्तरक्रियामादाय व्यवहार प्रवर्तयितव्यः । यत्र तु मिथ्याकारणोत्तरयोः कृत्स्न्नपक्षव्यापित्वम् यथा-श्रृंङ्गग्रा हिकया कश्चिद्वदति इयं गौर्मदीया अमुकस्मिन्काले नष्टा अद्यास्य गृहे दृष्टेति । अन्यस्तु मिथ्यैतत्, अँदर्शितकालात्पूर्वमेवास्महे स्थिता मम गृहे जाता चेति वदति । इदं तावत्पक्षनिराकरणसमर्थत्वान्नानुत्तरम् । नापि मिथ्यैव, कार णोपन्यासात् । नापि कारणम्, एकदेशस्याप्यभ्युपगमाभावात् । तस्मात्संका-


१ रूपकशते ग. २ द्वितीयसंकरे त्वित्यर्थः. ३ साधयितव्यमेतैः कृत्वा. ४ कारणोत्तरे तु ग. ५ आदिना दिव्यपरिग्रहः. ६ उत्तरत्रयेति मिथ्या-कारण-प्राङ्न्यायरूपे. ७ प्रति दास्यामि ग ८ चतु:संकरेति । यथा अनेन सुवर्ण रूप्यकशतं वस्राणि धान्यं च गृहीत मित्यभियोगे-सुवर्ण धारयामि रूपकशतं न गृहीतं वस्राणि प्रतिग्रहेण लब्धानि धान्यवि षये पूर्वन्यायेन पराजित इति । एवं मिथ्याप्राङ्न्यायसंकरेऽपि द्रष्टव्यम्. ९ क्रमेण त्वि त्यर्थः. १० चेन प्राड़िवाकादेः समुच्चयः. ११ यत्र त्वित्यर्थः. १२ मिथ्याकारणोत्तरयो १३ तत्साधकक्रियाग्रहणेन. १४ सत्योत्तरसंकरस्य पूर्वमनुपन्यासे बीजं ध्वनयन् तत्र निया मकान्तरमाह यत्रचेति. १५ यत् उत्तरम्. १६ अपेक्षाक्रमं भवतीत्यर्थः ग. १७ ऐच्छिक क्रमो भवतीत्यर्थः ख. १८ संकीर्णोत्तरस्य यौगपद्येन सर्वथाऽनुत्तरत्वे प्राप्त कचित्प्रतिप्रस वमाह यत्रत्विति. १९ तन्यायेनेत्यर्थः. २० कश्चित वादी. २१ अन्यः प्रतिवादी. २२ एत प्रदर्शित. ख. २३ अत्र कारणस्याप्राधान्यं मिथ्योत्तरस्य प्राधान्य तस्य तदुपपादकस्यापि संभवात् । अतएव तत्र सहयोगे तृतीया कृता