पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२०
[ व्यवहाराध्यायः
याज्ञवल्क्यस्मृतिः ।

पैण्डुलेखेन लिखित्वा आवापोद्धारेण विशोधितं पश्चात्पत्रे निवेशयेत् ।–‘पूर्व पक्ष स्वभावोक्तं प्राड़िवाकोऽभिलेखयेत् । पाण्डुलेखेन फलके ततः पत्रे विशोधि इति कात्यायनस्मरणात् । शोधनं च थावद्वत्तरदर्शन कर्तव्यं नात परम् । अनवस्थाप्रसङ्गात् । अतएव नारदेनोक्तम्—‘शोधयेत्पूर्ववादं तु यावन्नो त्तरदर्शनम् । अवष्टब्धस्योत्तरेण निवृत्तं शोधनं भवेत् । ।।' इति । पूर्वपक्षमशो धयित्वैव यदोत्तरं दापयन्ति सभ्यास्तदा रागालोभादित्युक्तदण्डेन सभ्यान्दण्ड यित्वा पुनः प्रतिज्ञापूर्वकं व्यवहारः प्रवर्तनीयो राज्ञेति ॥ ६ ॥
 एवं शोधितपत्रारूढे पूर्वपक्षे किं कर्तव्यमित्यत आह

श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसंनिधौ ।

  श्रुतो भाषार्थो येन प्रत्यर्थिनाऽसौ श्रुतार्थः तस्योत्तरं पूर्वपक्षादुत्तरत्र भवती त्युत्तरं लेख्यं लेखनीयम् । पूर्वावेदकस्यार्थिनः संनिधौ समीपे उत्तरं च यत्पूर्वो क्तस्य निराकरणं तदुच्यते । यथाह -‘पक्षस्य व्यापक सारमसंदिग्धमनाकु लम् । अव्याख्यागम्यमित्येतदुत्तरं तद्विदो विदुः ।।' इति । पक्षस्य व्यापक निराकरणसमर्थम् । सारं न्याय्यं न्यायादनपेतम् । असंदिग्धं संदेहरहितम् । अनाकुलं पूर्वापराविरुद्धम् । अव्याख्यागम्यं अप्रसिद्धपदप्रयोगेण दुःश्लिष्टवि भक्तिसमाससाध्याहाराभिधानेन वा अन्यदेशभाषाभिधानेन वा यद् व्याख्ये याथ न भवात तत्सदुत्तरम् प्रतिपत्तिमैिथ्या प्रत्यव स्कन्दनं पूर्वन्यायश्चेति । तथाह कात्यायनः–‘सत्यं मिथ्योत्तरं चैव प्रत्यव स्कन्दनं तथा । पूर्वन्यायविधिश्चैवमुत्तरं स्याच्चतुर्विधम् ॥' इति । तत्र सत्योत्तरं यथा । रूपकशतं मह्य धारयतीत्युक्त सत्यं धारयामीति । यथाह-‘साध्यस्य सत्यवचनं प्रतिपत्तिरुदाहृता' इति । मिथ्योत्तरं तु नाहं धारयामीति । तथाच कात्यायनः-“अभियुक्तोऽभियोगस्य यदि कुर्यादपह्नवम् । मिथ्या ततु विजा नीयादुत्तरं व्यवहारत ॥’ इति । तच्च मिथ्योत्तरं चतुर्विधम्-मिथ्ये तन्नाभिजानामि तदा तत्र न संनिधि । अजातश्चास्मि ' तत्काल इति मथ्या चतुर्विधम् ॥’ इति । प्रत्यवस्कन्दनं नाम सत्यं गृहीतं प्रतिदत्तं प्रतिग्रहेण लब्धमिति वा । यथाह नारदः–“अर्थिना 'लेखिनो योऽर्थः प्रत्यर्थी यदि तं तंथा--प्रपद्य कारणं यूयात्प्रत्यवस्कन्दनं स्मृतम् ॥' इति । प्राङ्न्यायोत्तरं

तु यत्राभियुक्त एवं बूयादस्मिन्नर्थेऽनेनाहमभियुक्तस्तत्र चायं व्यवहारमार्गेण


१ पाण्डूिति खडीति भाषाप्रसिद्धः. २ आावापेति न्यूनाधिक्यपरिहाराय प्रक्षपनिष्कास नाभ्यामित्यर्थः. ३ सहजोत्तं न तु छलादिना. ४ उत्तरेणावष्टब्धस्य प्रतिबद्धस्य पूर्ववादस्य शोधनं भवेदित्यर्थः. ५ उत्तरत्र अग्रे. ६ दुःशिष्टमसंबद्धम्, अठिष्टमिति पाठः. ७ अध्या हारेण सहितं साध्याहारम्. ८ अदेशभाषेति पाठः. ९ प्रत्यवस्कन्दनं कारणोत्तरम्, १० प्रतिपत्तिः संप्रतिपत्तिः सत्योत्तरमित्यनर्थान्तरम्. ११ अभियुक्तस्य ग. १२ ण्यन्तस्येदं रूपम्, १३ तथाप्रपद्य तथैवाङ्गीकृत्येत्यर्थे