पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
साधारणव्य०मा०प्र०१ ]
११९
मिताक्षरासहिता ।

त्वादिः । संज्ञा च देवदत्तादिः । अधिवासः समीपदेशनिवासी जनः । प्रमाण निवर्तनादि भूपरिमाणम् । क्षेत्रनाम शालिक्षेत्रं क्रमुकक्षेत्रं कृष्णभूमः पाण्डु भूमः इति । पितुः पितामहस्य च नामार्थिप्रत्यर्थिनोः पूर्वेषां त्रयाणाम् । राज्ञां नामकोर्तनं चेति । समामासादीनां यस्मिन्व्यवहारे यावदुपयुज्यते तत्र तावलेखनीयमिति तात्पर्यार्थ ॥ एवं पक्षलक्षणे स्थिते पक्षलक्षणरहितानां पक्ष वदवभासमानानां पक्षाभासत्वं सिद्धमेवेति योगीश्वरेण न पृथक्पक्षाभासा उक्ताः । अन्यैस्तु विस्पष्टार्थमुंक्ताः ।–अप्रसिद्धं निरॉबाधं निरर्थ निष्प्रयोज नम् । असाध्यं वा विरुद्धं वा पक्षाभासं विवर्जयेत् ॥’ इति । अप्रसिद्धं मदीयं शशविषाणं गृहीत्वा न प्रयच्छतीत्यादि । निराबाधं अस्मद्भहदीपप्रकाशेनायं निरर्थ अभिधेयरहितं कचटतपगजडदबेत्यादि निष्प्रयोजनं यथायं देवदत्तोऽस्मदृहसंनिधौ सुस्वरमधीत इत्यादि । असाध्यं यथाहं देवदत्तेन सधूभङ्गमुपहसित इत्यादि । एतत्साधनासंभवादसाध्यम् । अल्प कालत्वान्न साक्षिसंभवो लिखितं दूरतोऽल्पत्वान्न दिव्यमिति । विरुद्धं यथाहं मूकेन शस इत्यादि । पुरराष्ट्रादिविरुद्धं वै–“राज्ञा विवर्जितो यश्च यश्च पौर विरोधकृत् । राष्ट्रस्य वा समस्तस्य प्रकृतीनां तथैव च । ॥ अन्ये वा ये पुरग्राम महाजनविरोधका । अनादेयास्तु ते सर्वे व्यवहाराः प्रवकीर्तिता ॥’ इति ॥ तु–‘अनेकपदसंकीर्णः पूर्वपक्षो न सिद्धयति’ इति, तत्र यद्यनेकवस्तुसंकीर्ण इत्युच्यते तदा न दोषः । मदीयमनेन हिरण्यं वासो रूपकादि वापहृतभित्येवं विधस्यादुष्टत्वात् । ऋणादानादिपदसंकरे पक्षाभास इति चेत्तदपि न । मदीया रूपका अनेन वृद्धया गृहीताः सुवर्ण चास्य हस्ते निक्षिसम्, मदीयं क्षेत्रमयम पहरतीत्यादीनां पक्षत्वमिष्यत एव । किंतु क्रियाभेदात्क्रमेण व्यवहारो न युग पदित्येतावत् ॥ यथाह कात्यायनः–“बेहुप्रतिज्ञ यत्कार्ये व्यवहारेर सुनिश्चि तम् । कामं तदपि गृह्णीयाद्राजा तत्त्वबुभुत्सया ॥’ इति । तस्मादनेकपदसं कीर्णः पूर्वपक्षो युगपन्न सिद्धयतीति तस्यार्थ आर्थिग्रहणात्पुत्रपित्रादिग्रहणं तेषामेकार्थत्वात् । नियुक्तस्यापि नियोगेनैव तदेकार्थत्वाक्षेपात् ॥–‘अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा । यो यस्यार्थे विवदते तयोर्जयपराजयौ ॥’ इति

स्मरणात् नियुक्तजयपराजयौ मूलस्वामिनोरेव । एतच्च भूमौ फलके वा


१ कृष्णोदक्पाण्डुित्यच्प्रत्ययो बहुव्रीहेः. २ अत्र अप्रसिद्धादेः साधयितुमशक्यत्वादनि राकरणम् इति ख. पुस्तके विशेष:. ३ पीडारहितमित्यर्थः. ४ विनिगमनाभावादाह-पुरेति ५ अत्र “एतेषां स्वभावेनैव निराकरणमिति न निराक्रियते । तत्र च अप्रसिद्धादीनां व्युत्प त्यर्थमुपादानं तदप्यनेकपदसंकीर्णस्य निराकरणं न क्रियते' इति ख. पुस्तके विशेषः. ६ प्रकृ तीनां जनानां नगरस्थानाम्. ७ अप्रसिद्धादीनां पक्षाभासत्वमिवानेकपदसंकीर्णपूर्वपक्षस्यापि तत्त्वमेव । अनेकैः पदैः संकीण यः पूर्वपक्षः प्रतिज्ञा सा न सिद्धयति आभासरूपा भव तीति तदर्थप्रतीतेस्तन्निराकरोति--यत्वित्यादिना. ८ तत्र पदशब्दः पद्यते शायते इति व्यु त्पत्त्या किं वस्तुपर उत ऋणादानादिरूपव्यवहारविषयपरः । तत्र न तावदाचे पक्षाभासत्व मित्याह--तत्रेति. ९ बहुप्रतिज्ञ बहुपूर्वपक्षम्. १० पुत्रपौत्रादीनां क. ११ अर्थिवेदितमित्यर्थ