पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११८
[ व्यवहाराध्यायः
याज्ञवल्क्यस्मृतिः ।

  प्रत्यर्थिनि मुद्रालेख्यपुरुषाणामन्यतमेनानीते िकं कुर्यादित्यत आह --

प्रत्यर्थिनोऽग्रतो लेख्यं यथावेदितमर्थिना ।
समामासतदर्धाहर्नामजात्यादिचिह्नितम् ।। ६ ।।

  अथ्र्यते इत्यर्थः साध्यः सोऽस्यास्तीत्यर्थी तत्प्रतिपक्षः प्रत्यर्थी तस्याग्रतः पुरतो लेख्यं लेखनीयम् । यथा येन प्रकारेण पूर्वमावेदनकाले आवेदितं तथा । न पुनरन्यथा । अन्यथावादित्वेन व्यवहारस्य भङ्गप्रसङ्गात् ।–“अन्यवादी क्रिया द्वेषी नोपैस्थाता निरुत्तरः । ॐाहूतः प्रपलायी च हीनः पञ्चविधः स्मृतः । इति । आवेदनकाल एवार्तिवचनस्य लिखितत्वात्पुनलेंखनमनर्थकमित्यत आह संवत्सरमासपक्षतिथिवाराद्विना-आर्थिप्रलयर्थिनाम ब्राह्मण जात्यादिचिह्नितम् । आदिशब्देन द्रव्यतत्संख्यास्थानवेलेंाक्षमालिङ्गादीनि गृ ह्यन्ते । यथोक्तम्--'अर्थवैद्धर्मसंयुक्त परिपूर्णमनाकुलम् साध्यवद्वाचकपद प्रकृतार्थानुबन्धि च ॥ प्रसिद्धमविरुद्धं च निश्चितं साधनक्षमम् । संक्षिसं नि खिलार्थ च देशकालाविरोधि च ॥ बर्पर्तुमासपक्षाहोवेलादेशप्रदेशवत् । स्था नावसथसाध्याख्याजात्याकारवयोयुतम् साध्यप्रमाणसंख्यावदात्मप्रत्यर्थिना मवत् । परात्मपूर्वजानेकराजनामभिरङ्कितम् ॥ क्षमालिङ्गात्मपीडावत्कथिताह र्तृदायकम् । यदावेदयते राज्ञे तद्भाषेत्यभिधीयते ।।' इति । भापा प्रतिज्ञा पक्ष इति नार्थान्तरम् । आवेदनसमये कार्यमात्रं लिखितं प्रत्यर्थिनोऽग्रतः समामा सादिविशिष्टं लिख्यत इति विशेष । संवत्सरविशेषणं यद्यपि सर्वव्यवहारेषु नोपयुज्यते तथाप्याधिप्रतिग्रहक्रयेपु निर्णयार्थमुपयुज्यते ।–‘आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा’ इति वचनात् । अर्थव्यवहारेऽपि एकस्मिन्संवत्सरे य त्संख्याकं यद्रव्यं यतो येन गृहीतं प्रत्यर्पितं च पुनरन्यस्मिन्वत्सरे तद्रव्यं त त्संख्याकं ततस्तेन गृहीतं याच्यमानो यदि बूयात्सत्यं गृहीतं प्रत्यर्पितं चेति । वत्सरान्तरे गृहीतं प्रत्यर्पितं नास्मिन्वत्सरे इत्युपयुज्यते । एवं मासाद्यपि यो यम् । देशस्थानादयः पुनः स्थावरेष्वेवोपयुज्यन्ते–“देशश्चव तथा स्थार्न सं निवेशस्तथैव च । । जातिः संज्ञाऽधिवासश्च प्रमाणे क्षेत्रनाम च ॥ पितृपैतामहं चैव पूर्वराजानुकीर्तनम् । स्थावरेषु विवादेषु दृशैतानि निवेशयेत् ॥ इति स्मरणात् । देशो मध्यदेशादि । स्थानं वाराणस्यादि । संनिवेशस्तत्रैव पूर्वाप

रदिग्विभागपरिच्छिन्नः सम्यङ्गिविष्टो गृहक्षेत्रादि । जातिरर्थिप्रत्यर्थिनोब्रह्मण-


१ क्रियाद्वेषी कार्यद्वेषी. २ नोपस्थाता समीपे न तिष्ठन्. ३ आहुतव्यपलापी ग ४ वेलेति दिनमध्येऽपि प्रातरादिमुहूर्तरूपो वा कालविशेष इत्यर्थः. ५ अर्थवदिति। अर्थवत्प्र योजनवत्, धर्मसंयुतं धर्मो गुणः अल्पाक्षरत्वप्रभूताथैवत्वादिकस्तन युक्त, परिपूर्णमध्याहा रानपेक्ष, अनाकुलमसंदिग्धाक्षरं,साध्यवत्, सिषाधयिषितार्थसहितम्, वाचकपरं बहुव्रीहिगौ णलाक्षणिकादिरहितं, प्राकृतार्थानुबन्धि पूर्वावेदितार्थानुरोधि. ६ साधने क्षमम् ख.७ निय तार्थ ग. ८ इदमग्रे स्फुटीभविष्यत्यसाधारणव्यवहारमातृकाप्रकरणे. ९ पितृ इति लुप्तषष्ठीकं पुपृथक्पदं, पितुरिति पाठो वा