केचिदिष्टानिष्टलक्षणं फलं दैवादेवेच्छन्ति । केचित्स्वभावात्स्वयमेव भवति
न कारणमपेक्षत इति । केचित्कालात् । केचित्पुरुषकारत एवेति । स्वमतमाह--
दैवादीनां संयोगे समुच्चये फलं भवतीति कुशलबुद्धयो मन्वाद्यो मन्यन्ते ३५०
एकैकस्मात्फलं न भवतीत्यत्र दृष्टान्तमाह --
यथा ह्येकेन चक्रेण रथस्य न गतिर्भवेत् । |
नात्र तिरोहितमस्ति ।॥ ३५१ ॥
लाभाय परराष्ट्र गन्तव्यमित्युक्तम् । लाभश्च त्रिविधः हिरण्यलाभो मूललाभो
मित्रलाभश्चति । तेषु मित्रलाभो ज्यायान् । ततस्तत्प्राप्युपाये यतो विधातव्यः ।
तत्प्राप्युपायश्च सत्यवचनमित्याह --
हेिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः । |
यस्मात् हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा उत्कृष्टा तस्मात्तत्प्राप्यै यतेत
यत्रं कुर्यात् सामादिभिः । सत्यं च रक्षेत् । समाहितः सावधानः । सत्यमूलत्वा
न्मित्रलाभस्य ॥ ३५२ ॥
इदानीं राज्याङ्गान्याह -
खाम्यमात्या जनो दुर्ग कोशो दण्डस्तथैव च । |
महोत्साह इत्याद्युक्तलक्षणो महीपतिः स्वामी । अमात्या मत्रिपुरोहितादयः । जनो ब्राह्मणादिप्रजाः । दुर्ग धन्वैदुर्गादि । कोशः सुवर्णादिधनराशिः । दण्डो हस्त्यश्वरथपत्तिलक्षणं चतुरङ्गबलम् । मित्राणि सहजकृत्रिमप्राकृतानि । एताः स्वाम्याद्याः राज्यस्य प्रकृतयो मूलकारणानि । एवं राज्यं सप्ताङ्गमुच्यते ॥ ३५३ ॥
तदवाप्य नृपो दण्डं दुत्तिषु निपातयेत् । |
तदेवंविधं राज्यं प्राप्य दुवृत्तपु वञ्चकशठधूर्तपरदारपरद्रव्यापहारिहिंसका दिषु नृपो दण्डं पातयेत्प्रयोजयेत् । हि यस्माद्धर्म एव दृण्डरूपेण पूर्वं ब्रह्मणा निर्मितः । तस्य च दण्ड इति यौगिकी संज्ञा–‘दण्डो दमनादित्याहुस्तनादान्ता न्दमयेत्’ इत्यादिगौतमस्मरणात् ॥३५४ ॥
स नेतुं न्यायतोऽशक्यो लुब्धेनाकृतबुद्धिना । |
१ विवृतमेतत्सविस्तरं ३२१ तमपद्यटिप्पन्याम्.