सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
राजधर्मप्रकरणम् १३]
१०७
मिताक्षरासहिता ।

ऽपकारः । एते सामाद्यः परिपन्थ्यादिसाधनोपायाः । एते च देशकालाद्यनुसारेण सम्यक्प्रयुक्ताः सिञ्चेयुः । तेषां च मध्ये दण्डस्त्वगतिका गतिः, उपायान्तरसं भवे सति न प्रयोक्तव्यः । एतच्च पीडनीयकर्शनीयाभिप्रायेण । यातव्योच्छेत्त व्ययोस्तु दण्ड एव मुख्यः । एते सामादयो न केवलं राज्यव्यवहारविषया अपितु सकललोकव्यवहारविषयाः । यथा-‘अधीष्व पुत्रकाधीष्व दास्यामि तव मोदकान् । यद्वान्यस्मै प्रदास्यामि कर्णमुत्पाटयामि ते ॥' इति ॥ ३४६ ॥

संधिं च विग्रहं यानमासनं संश्रयं तथा ।
द्वैधीभावं गुणानेतान्यथावत्परिकल्पयेत् ॥ ३४७ ॥

  किंच । संधिव्र्यवस्थाकरणम् । विग्रहोऽपकारः । यानं परंप्रति यात्रा । आसनमुपेक्षा । संश्रयो बलवदाश्रयणम् । द्वैधीभावः स्वबलस्य द्विधाकरणम् । एतान्संधिप्रभृतीन्गुणान्यथावद्देशकालशक्तिमित्रादिवशेन कल्पयेत् ॥ ३४७ ॥  यानकालानाह--

यदा सस्यगुणोपेतं परराष्ट्र तदा ब्रजेत् ।
परश्च हीन आत्मा च हृष्टवाहनपूरुषः ॥ ३४८ ॥

  यदा परराष्ट्र सयैत्रीह्यादिभिर्गुणैश्च समजलेन्धनतृणादिभिरुपेतं संपत्रं , शत्रुश्च हीनो बलादिभिः, आत्मा च ह्यष्टवाहनपूरुषः वाहनानि हस्त्यश्वादीनि तानि च पूरुषाश्च वाहनपूरुषाः ह्यष्टा वाहनपूरुषा यस्य स तथोक्तः । तदा पर राष्ट्रमात्मसात्कतु ब्रजत् ॥ ३४८ ॥  प्राणिनामभ्युदयविनिपातानां दैवायत्तत्वाद्यदि दैवमस्ति तदा स्वयमेव राष्ट्रादि वशीभविष्यति, अथ नास्ति कृतेऽपि पैौरुषे न भविष्यति अतो व्यर्थ एवाय यात्राप्रयास इत्यत आह --

दैवे पुरुषकारे च कर्मसिद्धिव्यवस्थिता ।
तत्र दैवमभिव्यक्त पौरुषं पौर्वदेहिकम् ॥ ३४९ ॥

 कर्मसिद्धिः फलप्राप्तिरिष्टानिष्टलक्षणा । सा न केवलं दैवे व्यवस्थिता । अपितु पुरुषकारेऽपि । लोके तथादर्शनात्, चिकित्सकादिशास्रवैयथ्र्याच । अपेिच पुरुषकाराभावे दैवमेव नास्तीत्याह--तत्र दैवमिति । यतः पूर्वदेहार्जितं पौरुष मेव दैवमुच्यते । अल्पपुरुषकारानन्तरं महाफलोदयाभिव्यक्तं पौरुषं पौर्वदेहिकं कर्म । तस्मात्पुरुषकाराभावे न दैवमस्तीति पुरुषकारे यो विधातव्यः ॥ ३४९ ॥  इदानीं मतान्तराण्याह --

केचिदैवात्खभावाद्वा कालात्पुरुषकारतः ।
संयोगे केचिदिच्छन्ति फलं कुशलबुद्धयः ॥ ३५० ।।


१ विग्रहं चैव यानमासनसंश्रयौ ख. २ कारेऽपि क.