मत्रमूलं यतो राज्यं तस्मान्मत्रं सुरक्षितम् । |
यस्मातैः सार्ध चिन्तयेद्राज्यमित्याद्युक्त मत्रमूलं राज्यं तस्मान्मन्त्रं यखेन तथा सुरक्षितं कुर्यात्, यथास्य राज्ञः कर्मणां संधिविग्रहादीनामाफलोदयात् फलनिष्पत्तेः प्रागन्ये मञ्च न जानन्ति ॥ ३४४ ॥
अरिर्मित्रमुदासीनोऽनन्तरस्तत्परः परः । |
किंच । अरिः शत्रुः । मित्रं सुहृत् । उभयविलक्षण उदासीनश्च । ते च त्रय
स्त्रिविधाः सहजाः कृत्रिमाः प्राकृताश्चेति । तत्र सहजोऽरिः सापत्रपितृव्यतत्पु
त्रादिः । कृत्रिमोऽरिः यस्यापकृतं येन चापकृतम् । प्राकृतस्त्वनन्तरदेशाधि
पतिः । सहजं मित्र भागिनेयपेतृप्वस्रीयमातृप्वस्रीयादि । कृत्रिमं मित्रं येनो
पकृतं यस्य चोपकृतम् । प्राकृतमित्रमेकान्तरितदेशाधिपतिः । सहजकृत्रिममि
त्रशत्रुलक्षणरहितौ सहजकृत्रिमोदासीनौ । प्राकृतोदासीनो धन्तरितदेशाधि
पतिः । अरिः पुनश्चतुर्विधः यातव्योच्छेत्तव्यपीडनीयकर्शनीयभेदेन । तत्र या
तव्योऽनन्तरभूमिपतिव्र्यसनी हीनबलो विरक्तप्रकृतिः । विदुर्गे मित्रहीनो दुबै
लश्चोच्छेत्तव्यः । पीडनीयो मम्रबलहीनः । प्रबलमब्रबलयुक्तः कर्शनीयः ।
निर्मुलनात्समुच्छेदं पीडनं बलनिग्रहम् । कर्शनं तु पुनः प्राहुः कोशदण्डापर्के
शैनात् ।।' इति । मित्रं द्विविधं वृंहणीयं कर्शनीयमिति । कोशबलहीनं वृंह
णीयम् । कोशबलाधिकं कर्शनीयम् । अनन्तरस्तत्परः पर इति प्राकृतारिभित्रो
दासीनानाह । अनन्तर प्राकृतोऽरिः, तत्परः प्राकृतं मित्रं, तस्मात्परः प्राकृत
उदासीनः शेषाः पुनः प्रसिद्धत्वान्नेोक्ताः । एतद्राजमण्डलं क्रमशः पूर्वादिदि
छूमेण चिन्त्यं तेषां चेष्टितं ज्ञातव्यम् । ज्ञात्वा च सामादिभिरुपायैर्वक्ष्यमाणैर
संधेयम् । एवं पुरतः पृष्ठतः पार्श्वतश्च त्रयस्रय आत्मा. चैवेक इति त्रयोदशरा
जकमिदं राजमण्डलं पद्माकारम् । पाष्णिग्राहाक्रन्दासारादयस्त्वरिमित्रोदासीने
ष्वेवान्तर्भवन्ति संज्ञाभेदमात्रं ग्रन्थान्तरे दर्शितभिति योगीश्वरेण न श्रृंथ
गुत्तकाः ॥ ३४५ ॥
सामादिभिरुपक्रमैरित्युक्तं, इदानीं तानुपायानाह --
उपायाः साम दानं च भेदो दण्डस्तथैव च । |
साम प्रियभाषणम् । दानं सुवर्णादेः । भेदो भेदकरणं तत्सामन्तादीनां पर
स्परतो वैरस्योत्पादनेन । दण्ड उपांशुप्रकाशाभ्यां धनापहारादिवधपर्यन्त
१ राज्यमतो मन्त्रं क. ग. २ प्राग्यावदन्ये ख. ३ ह्यनन्तरदेशा क. मध्यन्तरदेशा “गः ४ व्योच्छेदनीय क. ५ पकर्षणात् ख. ६ रभिसंधेयं क. ७ न पृथगुक्तम् ख ८ स्योत्पादम् ख.