सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
राजधर्मप्रकरणम् १३]
१०५
मिताक्षरासहिता ।

ये राष्ट्राधिकृतास्तेषां चारैज्ञत्वा विचेष्टितम् ।
साधून्संमानयेद्राजा विपरीतांश्च घातयेत् ।। ३३८ ॥
उत्कोचजीविनो द्रव्यहीनान्कृत्वा विवासयेत् ।
सद्दानमानसत्काराञ्श्रोत्रियान्वासयेत्सदा ।। ३३९ ॥

  राष्ट्र राष्ट्राधिकारेषु ये नियुक्तास्तेषां विचेष्टितं चरितं चारैरुक्तलक्षणैः सम्यक् ज्ञात्वा साधून्सुचरितान् संमानयेत् दानमानसत्कारैः पूजयेत् । विपरीतान्दुष्ट चरितान्सम्यग्विदित्वा घातयेत् अपराधानुसारेण• । ये पुनरुत्कोचजीविनस्तान्द्र व्यरहितान्कृत्वा स्वराष्ट्रात्प्रवासयेत् । श्रोत्रियान्सद्दानमानसत्कारैः सहितान्कृत्वा स्वराटे स्वदेशे सदैव वासयेत् ॥ ३३८ ॥ ३३९ ॥

अन्यायेन नृपो राष्ट्रात्खकोशं योऽभिवर्धयेत् ।
सोऽचिराद्विगतश्रीको नाशमेति सबान्धवः ॥ ३४० ।।

  योऽसौ राजा स्वराष्ट्रादन्यायेन द्रव्यमादाय स्वकोश अभिवर्धयेत् सोऽचिरा च्छीघ्रमेव विगतश्रीको विनष्टलक्ष्मीको बन्धुभिः सह नाशं प्राप्तोति ॥ ३४० ॥

प्रजापीडनसंतापात्समुन्दूतो हुताशनः ।
राज्ञः कुलं श्रियं प्राणांश्चाऽदग्ध्वा न निवर्तते ॥ ३४१ ॥

  प्रजानां तस्करादिकृतपीडनेन यः संतापस्तस्मादुद्भतो हुताशन इव संताप कारित्वादपुण्यराशिर्डताशनशब्देनोच्यते । स राज्ञः कुलं श्रियं प्राणांश्चादग्ध्त्रा नाशमनीत्वा न निवर्तते नोपशाम्यति ॥ ३४१ ॥

य एव नृपतेर्धर्मः खराष्ट्रपरिपालने ।
तमेव कृत्स्रमाझोति परराष्ट्र वशं नयन् ॥ ३४२ ॥

  न्यायतः स्वराष्ट्रपरिपालने राज्ञो यो धर्मस्तं सकलं वक्ष्यमाणन्यायेन परराष्ट्र वशं नयन् आत्मसात्कुर्वन्नाप्तोति धर्मषङ्कागं च ॥ ३४२ ॥

यस्मिन्देशे य आचारो व्यवहारः कुलस्थितिः ।
तथैव परिपाल्योऽसौ यदा वशमुपागतः ।। ३४३ ।।

  किंच यदा परदेशो वशमुपागतस्तदा न स्वदेशाचारादिसंकर कार्यः किं तु य स्मिन्देशे य आचारः कुलस्थितिव्र्यवहारो वा यथैव प्रागासीत्तथैवासौ परिपाल नीयो यदि शास्त्रविरुद्धो न भवति । यदा वशमुपागत इत्यनेन वशोपगमना त्प्रागनियम इति दर्शितम् । यथोक्तम् (मनुः ७॥१९५)-‘उपरुध्यारिमासीत

राष्ट्र चास्योपपीडयेत् । दूषयेचास्य सततं यवसान्नोदकेन्धनम् ॥' इति ॥ ३४३ ॥


१ सदानमान ख. २ प्राणानदग्ध्वा क.