पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०४
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

सामन्ताद्यधिकारिषु अन्येषु च महीपतिषु प्रेषयेत्तचिकीर्षितपरिज्ञानाय । ततः प्रातःसंध्यामुपास्याऽन्निहोत्रं हुत्वा पुरोहितत्विगाचार्यादिभिराशीर्भिरभिनन्दितो च पुरोहिता ज्योतिर्विदो दृष्टा तेभ्यश्च ग्रहादिस्थितिं विदित्वा शान्तिकादीनि नादिश्य वैद्यांश्च दृष्टा तेभ्यश्च स्वशरीरस्थितेिं निवेद्य प्रतिविधानं चादेश्य गां दोग्ध्रीं काञ्चनं महीं च नैवेशिकानि विवाहोपयोगीनि कन्यालंकारादीनि गृ हाणि च सुधाधवलितादीनि श्रोत्रियेभ्योऽधीतवेदेभ्यो ब्राह्मणेभ्यः । दद्यादिति प्रत्येकं संबध्यते ॥ ३३२ ॥ ३३३ ॥

ब्राह्मणेषु क्षमी स्निग्धेष्वजिह्मः क्रोधनोऽरिषु ।
स्याद्राजा भृत्यवर्गेषु प्रजासु च यथा पिता ।। ३३४ ।।

 किंच । ब्राह्मणेष्वधिक्षिपत्स्वपि क्षमी क्षमावान् । स्त्रिग्धेषु खेलहवत्सु मित्रा दिष्वजिह्मः अवक्रः । अरिषु क्रोधनः । भृत्यवर्गेषु प्रजासु च हिताचरणेनाहित निवर्तनेन च पितेव दयावान् । स्यादिति प्रत्येकं संबध्यते ॥ ३३४ ॥
 प्रजापालनफलमाह -

पुण्यात्षङ्गागमादत्ते न्यायेन परिपालयन् ।
सर्वदानाधिकं यस्मात्प्रजानां परिपालनम् ।। ३३५ ।।

 यस्मान्यायेन शास्त्रोक्तमार्गेण प्रजाः परिपालयन् परिपालितप्रजोपहितपु शष्यात् षङ्गार्ग षटं भागमादत्ते । यस्माच्च सर्वेभ्यो भूम्यादिदानेभ्यः प्रजानां परिपालनमधिकफलम् । तस्मात्प्रजासु यथा पिता तथेव स्यादिति गतेन संबन्धः ॥ ३३५ ॥

चाटतस्करदुवृत्तमहासाहसिकादिभिः ।
पीड्यमानाः प्रजा रक्षेत्कायस्थैश्च विशेषतः ।। ३३६ ॥

 चवाटाः प्रतारकाः विश्वास्य ये परधनमपहरन्ति । प्रच्छन्नापहारिणस्तस्कराः । दुत्ता इंन्द्रजालिककितवादयः । सहो बलं सहसा बलेन , कृतं साहसं महच्च तत्साहसं च महासाहसं तेन वर्तन्त इति महासाहसिकाः प्रसह्यापहारिणः । आदिशब्दान्मौलिककुहकदुर्तृत्तयः । पुतैः पीड्यमाना बाध्यमानाः प्रजा रक्षेत् । कायस्था लेखका गणकाश्च तैः पीड्यमाना विशेषतो रक्षेतू । तेषां राजवलभ तयातिमायाचित्वाच्च दुर्निवारत्वात् ॥ ३३६ ॥

अरक्ष्यमाणाः कुर्वन्ति यत्किवित्किल्बिषं प्रजाः ।
तस्मात्तु नृपतेरर्थे यस्मादृङ्गात्यसौ करान् ।। ३३७ ।।

 अरक्ष्यमाणाः प्रजा यत्किचित्किल्बिषं चौर्यपरदारगमनादि कुर्वन्ति तस्मात्पापाद्र्ध नृपतेर्भवति । यस्मादसौ राजा रक्षणार्थ प्रजाभ्यः करान्

गृह्णाति ॥ ३३७ ॥


१ धर्मशास्रोक्तन. ग. २ ऐन्द्रजालेिक. ग. ३ अपकारिणः ग .