पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
राजधर्मप्रकरणम् १३]
१०३
मिताक्षरासहिता ।


न्पूर्वप्रेषितानागतान्मत्रिसंगतः पश्येत् । दृष्ट्रा तद्वार्तामाकलय्य पुनः पुन प्रेषयेत् ॥ ३२८

ततः खैरविहारी स्यान्मत्रिभिर्वा समागतः
बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत् ॥ ३२९॥

  तदनन्तरमपराहे स्वैरं यथेष्टमेकोऽन्तःपुरविहारी स्यात् । मत्रिभिर्वा विश्वा सिभिः कलाकुशलैः परिहासवेदिभिः परिवृतः स्त्रीभिश्च रूपयौवनवैदग्ध्यशा लिनीभिः–‘भुक्तवान्विहरेचैव स्त्रीभिरन्तःपुरे सह । विहृत्य तु यथाकालं पुन कार्याणि चिन्तयेत् ॥' इति (७॥२२१) मनुस्मरणात् । ततो विशिष्टैर्वस्रकुंसु मविलेपनालंकारैरलंकृतः हस्त्यश्वरथपदातिबलानि दृष्टा सेनान्या सेनापतिना सह तद्रक्षणादि देशकालोचितं चिन्तयेत् ॥ ३२९

संध्यामुपास्य शृणुयाच्चाराणां गूढभाषितम् ।
गीतनृत्यैश्च भुञ्जीत पठेत्स्वाध्यायमेव च ॥३३०॥

  ततः सायंकाले संध्यामुपास्य । सामान्येन प्राप्तस्यापि पुनर्वचनं कार्याकुल त्वादविस्मरणार्थम् । अनन्तरं ये पूर्वदृष्टाः कचित्स्थाने निवेशितास्तेषां चाराणां गूढभाषितमन्तर्वेश्मनि शस्रपाणिः शणुयात् । उक्तंच मनुना (७॥२२३)-‘संध्यां चोपास्य शणुयादन्तर्वेश्मनि शस्त्रभृत् रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम् ॥' इति । ततो नृत्यगीतादिभिः कंचित्कालं क्रीडित्वा कक्षान्तरं प्रविश्य भुञ्जीत-“गत्वा कक्षान्तरं त्वन्यत्समनुज्ञाप्य तं जनम् । प्रविशेद्भोजना च स्रीभिरन्तःपुरं सह ॥' इति (मनुः ७॥२२४) स्मरणात् । ततोऽविस्मरणार्थ यथाशक्ति स्वाध्यायं पठेत् ॥ ३३०

संविशेत्तूर्यघोषेण प्रतिबुद्धयेत्तथैव च ।
शास्त्राणि चिन्तयेदुद्धया सर्वकर्तव्यतास्तथा ।। ३३१ ।

  तदनन्तरं तूर्यशङ्घोषेण संविशेत्स्वप्यात् । तथैव तूर्यादिधोषेण प्रतिबुद्येत् प्रतिबुद्धय च शास्रविद्भिर्विश्वासिभिः सह एकाकी वा पश्चिमे यामे शास्त्राणि चिन्तयेत् सर्वकर्तव्यताश्च सर्वकार्याणि एतच स्वस्थं प्रत्युच्यते । अस्वस्थ सर्वकार्येष्वन्यं नियोजयेत् । यथाह मनुः (७॥२२५)–‘एतैदृत्तं समातिष्ठ दरोगः पृथिवीपतिः । अस्वस्थः सर्वमेवैतन्मत्रिमुख्ये निवेशयेत् ॥’ इति ॥३३१

प्रेषयेच ततश्चारान्खेष्वन्येषु च सादरान्
ऋत्विक्पुरोहिताचार्येराशीर्भिरभिनन्दितः ॥ ३३२॥
दृष्टा ज्योतिर्विदो वैद्यान्दद्याद्रां काञ्चनं महीम् ।
नैवेशिकानि च ततः श्रोत्रियेभ्यो गृहाणि च ॥ ३३३:॥

 

अनन्तरं तत्रस्थ एव. विश्वस्तान्स्वान् चारान् दानमानसत्कारैः पूजितान्खेषु


१ स्रीवृतोऽन्तःपुरं पुनः इति पाठ २ एतद्विधान इति पाठः. ३ सर्वमेततु भृत्येषु विनियोजयेत् इति पाठ या० १२