पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
राजधर्मप्रकरणम् १३]
१०९
मिताक्षरासहिता ।

  स , पूवात्तका दण्डो लुब्धेन कृपणेनाकृतबुद्धिना चञ्चलबुद्धिना न्यायतो न्या यानुसारेण नेतुं प्रयोक्तुं शक्यो न भवति । कीदृशेन तर्हि शक्य इत्याह-स- त्यसंधेनाप्रतारकेण । शुचिना जितारिषङ्कर्गेण । सुसहायेन पूर्वोक्तसहायसहि तेन । धीमता नयानयकुशलेन स दण्डो न्यायतो धर्मानुसारेण नेतुं शक्यः ३५५

यथाशास्त्रं प्रयुक्तः सन् सदेवासुरैमानवम् ।
जगदानन्दयेत्सर्वमन्यथा तत्प्रकोपयेत् ॥ ३५६ ।।

  स दण्डः शास्रोक्तमार्गेण प्रयुज्यमानः सन् देवासुरमानवैः सहितं इदं सर्च जगदानन्दयत् हृषयत् । अन्यथा शास्त्रातक्रमण प्रयुक्तश्चज्जगत्प्रकापयत् ॥३५४६॥
  न केवंलमधर्मदण्डेन जगत्प्रकोपेः अपितु प्रयोक्तुर्छष्टादृष्टहानिरपीत्याह

अधर्मदण्डनं स्खैर्गकीर्तिलोकविनाशनम् ।
सम्यतु दण्डनं राज्ञः खर्गकीर्तिजयावहम् ।। ३५७ ।।

  यः पुनः शास्रातिक्रमेण लोभादिना दण्डः कृतः स पापहेतुत्वात्स्वर्ग कीर्ति लोकांश्च विनाशयति । शास्रोक्तमार्गेण तु तो धर्महेतुत्वात्स्वर्गकीर्तिजयानां हेतुर्भवति ॥ ३५७

अपि भ्राता सुतोऽध्य वा श्वशुरो मातुलोऽपि वा ।
नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्खकात् ॥३५८॥

  अध्योऽर्धार्हः आचार्यादिः । शेषः प्रसिद्धः । एते भ्रातृसुतादयोऽपि स्वधर्मा चलेिता दण्ड्याः किमुतान्ये । यतः स्वधर्माचलितः अदण्डयो नाम राज्ञः कोऽपि नास्ति । एतच्च मातापित्रादिव्यतिरेकेण । तथाच स्मृत्यन्तरम्–‘अदण्ड्यौ मातापितरौ स्नातकंपुरोहितपरिव्राजकवानप्रस्थाः श्रुतशीलशैौचाचारवन्तस्ते हि धर्माधिकारिणः’ इति ॥ ३५८ ॥

यो दण्ड्यान्दण्डयेद्राजा सम्यग्वध्यांश्च घातयेत् ।
इष्टं स्यात्क्रतुभिस्तेन समाप्तवरदक्षिणैः ॥ ३५९ ॥

  किंच । यस्तु दण्ड्यान्स्वधर्मचलनादिना दण्डयोग्यान्सम्यक् शास्रदृष्टेन मा गेण धिग्धनदण्डादिना दण्डयति, वध्यान्वधाहन्धातयति तेन राज्ञा भूरिद क्षिणैः ऋतुभिरिष्टं भवति । बहुदक्षिणक्रतुफलं प्राप्तोतीत्यर्थः । नच फलश्रवणा द्दण्डप्रणयनं काम्यमिति मन्तव्यम् । अकरणे प्रायश्चित्तस्मरणातू । यथाह वसिष्ठः–“दण्डोत्सर्गे राजैकरात्रमुपवसेत्रिरात्रं पुरोहितः कृच्छमदण्ड्यदृण्डने पुरोहितत्रिरात्रं राजा' इति ॥ ३५९ ॥
  दुष्ट सम्यग्दण्डः प्रयोक्तव्य इत्युक्त, दुष्टपरिज्ञानं च व्यवहारदर्शनमन्तरेण न भवतीति तत्परिज्ञानाय व्यवहारदर्शनमहरहः स्वयं कर्तव्यमित्याह -

इति संचिन्त्य नृपतिः क्रतुल्यफलं पृथक् ।
व्यवहारान्खयं पश्येत्सभ्यैः परिवृतोऽन्वहम् ।। ३६० ॥


१ऽसुरमानुषम् क. २ प्रकोपनमपितु क. ३ खर्ग कीर्ति लोकांश्च नाशयेत् क. ४. कृतः सोऽपापहेतुत्वात् क. ग. ५ परिव्राजकपुरोहित ख