पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९६
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

इदानीं भोजनान्याह--

गुडौदनं पायसं च हविष्यं क्षीरषाष्टिकम् ।
दध्योदनं हविश्धूर्ण मांसं चित्रान्नमेव च ।। ३०४ ।।
दद्याद्वहक्रमादेवं द्विजेभ्यो भोजनं बुधः ।
शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकम् ।। ३०५ ।।

गुडमिश्र ओदनो गुडौदनः । पायसम् । हघेिण्यं मुन्यन्नादि । क्षीरषाष्टिर्क क्षीरभिश्रः षाष्टिकोदनः । दक्षा मिश्र ओोदनो दध्योदनः । हविर्धतौदन । चूर्ण तिलचूर्णभिश्र ओदनः । मांसं भक्ष्यमांसमिश्र ओदनः । चित्रैोदनो नानावर्णों दनः । एतानि गुडौदनादीनि यथाक्रममादित्याद्युद्देशेन भोजनार्थ द्विजेभ्यो ब्राह्मणे भ्यो दद्यात् । ब्राह्मणसंख्या यथाविभवं द्रष्टव्या । गुडैोदनाद्यभावे तु यथालाभमो दनादि पादप्रक्षालनादिविधिपूर्वकं सन्कृत्य संमानपुरःसरं दद्यात् ॥ ३०४ ॥ ३०५ ॥ दक्षिणामाह--

धेनुः शङ्खस्तथानङ्कान्हेम वासो हयः क्रमात् ।
कृष्णा गौरायसं छाग एता वै दक्षिणाः स्मृताः ।। ३०६ ।।

धेनुर्दोग्ध्री । शङ्खः प्रसिद्धः । अनङ्कान्भारसंहो बलीवर्दः । हेम सुवर्ण । वासः पीतम् । हयः पाण्डुरः । कृष्णा ग । औयसं शस्त्रादि । छागः प्रसिद्धः । पुता धेन्वादयो यथाक्रममादित्याद्युद्देशेन ब्राह्मणानां दक्षिणाः स्मृताः । उक्ता मन्वादिभिः । एतच्च संभवे सति । असंभवे तु यथालाभं शक्तितोऽन्यदेव यत्किंचिद्देयम् ॥ ३०६ ॥ शान्तिकामेनाविशेषेण सर्वे ग्रहाः पूजयितव्या इत्युक्तं तत्र विशेषमाह--

यस्य यस्य यदा दुःस्थः स तं यलेन पूजयेत् ।
ब्रह्मणैषां वरो दत्तः पूजिताः पूजयिष्यथ ।। ३०७ ।।

यस्य पुरुषस्य यो ग्रहो यदा दुःस्थोऽष्टमादिदुष्टस्थानस्थितः स तं ग्रहं तदा यखेन विशेषेण पूजयेत् । यस्मादेषां ग्रहाणां ब्रह्मणा पूर्व वरो दत्तः पूजिता सन्तो यूयमिष्टप्रापणेनानिष्टनिरसनेन च पूजयितारं पूजयिष्यथेति ॥ ३०७ ॥ अविशेषेण द्विजानधिकृत्य शान्तिकपौष्टिकादीनि कर्माण्यनुक्रान्तानि तत्राभि पेकॅगुणयुक्तस्य राज्ञो विशेषेणाधिकार इत्याह--

ग्रहाधीना नरेन्द्राणामुच्छायाः पतनानि च ।
भावाभावौ च जगतस्तस्मात्पूज्यतमा ग्रहाः ।। ३०८ ।।
[ग्रहाणामिदमातिथ्यं कुर्यात्संवत्सरादपि ।
आरोग्यबलसंपन्नो जीवेत्स शरदः शतम् ।।]


१ द्विजः ख. २ भारवाहो क. ग. ३ आयसमस्रादि, आयसं ताम्रादि क. ४ भिपेक