पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८२
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

अर्वाक्सपिण्डीकरणं यस्य संवत्सराद्भवेत् ।
तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजे ।। २५५ ।।

संवत्सरादर्वाक्सपिण्डीकरणं यस्य कृतं तस्य तदुद्देशेन प्रतिदिवसं प्रतिमासं वा यावत्संवत्सरं शक्त्यनुसारेणान्नमुदकुम्भसहितं ब्राह्मणाय दद्यात् । अर्वाक्सं वत्सरादिति वदता सपिण्डीकरणं संवत्सरे पूर्णे प्राग्वेति दर्शितम् । यथाहाश्व लायनः–‘अथ सपिण्डीकरणं संवत्सरान्ते द्वादशाहे वा' इति । कात्याय नोऽप्याह -‘ततः संवत्सरे पूर्णे सपिण्डीकरणं त्रिपक्षे वा यदाचार्वाग्वृद्धिरापद्ये ते' इति । द्वादशाहे त्रिपक्षे वृद्धिप्राप्तौ संवत्सरे वेति चत्वारः पक्षा दर्शिताः । तत्र द्वादशाहे पितुः सपिण्डीकरणं साझिकेन कार्यम् । सपिण्डीकरणं विना पिण्डपि तृयज्ञासिद्धेः–“सान्निकस्तु यदा कर्ता प्रेतो वाप्यग्मिान्भवेत् । द्वादशाहे तद् कार्य सपिण्डीकरणं पितु ॥’ इति वचनात् । निरन्निकस्तु त्रिपक्षे वृद्धिप्राप्ती संवत्सरे वा कुर्यात् । यदा प्राक्संवत्सरात्सपिण्डीकरणं तदा षोडशश्राद्धानि कृत्वा सपिण्डीकरणं कार्यम्, उत सपिण्डीकरणं कृत्वा स्वस्वकाले तानि कर्त व्यानीति संशयः । उभयथा वचनदर्शनात् । ।–“श्राद्धानि षोडशादत्वा नैव कुर्यात्सपिण्डताम् । श्राद्धानि षोडशापाद्य विदधीत सपिण्डताम् ॥’ इति । षोड शश्राद्धानि च-'द्वादशाहे त्रिपक्षे च षण्मासे मासि चाब्दिके । श्राद्धानि षोडशैतानि संस्मृतानि मनीषिभिः ॥’ इति दर्शितानि । तथा—‘यस्यापि वत्सरा दर्वाक्सपिण्डीकरणं भवेत् । मासिकं चोदकुम्भं च देयं तस्यापि वत्सरम् ॥ ' इति । तत्र सपिण्डीकरणं कृत्वा स्वकाल एवैतानि कर्तव्यानीति प्रथमः कल्पः । अप्रासकालत्वेन प्रागनधिकारात् । यदपि वचनं “षोडशश्राद्धानि कृत्वैव सपि ण्डीकरणं संवत्सरात्प्रागपि कर्तव्यम्’ इति सोऽयमापत्कल्पः । यदा त्वापत्क ल्पत्वेन प्राक्सपिण्डीकरणात् प्रेतश्राद्धानि करोति तदैकोद्दिष्टविधानेन कुर्यात् । यदा तु मुख्यकल्पेन स्वकाल एव करोति तदाब्दिकं श्राद्धं यो यथा करोति पार्व पणमेकोद्दिष्ट वा तथा मासिकानि कुर्यात् ।–‘सपिण्डीकरुणादर्वाकुर्वन् श्राद्धानि षोडश । एकोद्दिष्टविधानेन कुर्यात्सर्वाणि तानि तु ॥ सपिण्डीकरणादूध्वं यदा कुर्यात्तदा पुनः । प्रत्यब्दं यो यथा कुर्यात्तथा कुर्यात्स तान्यपि ॥’ इति स्मरणात् । एतच्च प्रेतश्राद्धसहितं सपिण्डीकरणं संविभक्तधनेषु बहुषु भ्रातृपु सत्स्वप्येकेनैव कृतेनालं न सवैः कर्तव्यम् ।–‘नवश्राद्धं सपिण्डत्वं श्राद्धान्यपि च षोडश । एकेनैव तु कार्याणि संविभक्तधनेष्वपि ॥’ इति स्मरणात् । इदं च प्रेतश्राद्धस हितं सपिण्डीकरणं असंन्यासेिनां पुत्रादिभिर्नियमेन कर्तव्यम् । प्रेतत्वविमोक्षा र्थत्वात् संन्यासिना तु न कर्तव्यम् । यथाहोशना–“एकोद्दिष्टं न कुर्वीत यतीनां चव सर्वदा । अहन्येकादशे प्राप्से पार्वणं तु विधीयते ॥ सपिण्डीकरणं तेषां न कर्तव्यं सुतादिभिः । त्रिदण्डग्रहणादेव प्रेतत्वं नैव जायते ॥' इति ।


१ करणं भवेत ख. २ द्यते तदेति ख