पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
श्राद्धप्रकरणम् १०]
८३
मिताक्षरासहिता ।

पुत्रासंनिधाने येन सगोत्रादिना दाहसंस्कारः कृतस्तेनैवादशाहान्तं तप्रेतकर्म कर्तव्यम्–‘असगोत्रः सगोत्रो वा स्री दद्याद्यदि वा पुमान् । प्रथमेऽहनि यो दद्यात्स दशाहं समापयेत् ॥’ इति स्मरणात् । शूद्राणामप्येतत्कर्तव्यममन्त्रकं द्वादशेऽह्नि–‘एवं सपिण्डीकरणं मत्रवज्र्य शूद्राणां द्वादशेऽह्नि' इति विष्णुस्म रणात् । सपिण्डीकरणादूध्र्व सांवत्सरिकपार्वणादीनि पुत्रस्य नियमेनैव कार्याणि अन्येषामनियतानि ॥ २५५ ॥
शुकाद्दष्टकालानाह--

मृतेऽहनि कर्तव्यं प्रतिमासं तु वत्सरम् ।
प्रतिसंवत्सरं चैवमाद्यमेकादशेऽहनि ।। २५६ ।।

मृतेऽहनि प्रतिमासं संवत्सरं यावद्कोद्दिष्ट कार्यम् । सपिण्डीकरणादूध्र्व प्रति संवत्सरमेकोद्दिष्टमेव कर्तव्यम् । आद्य सर्वेकोद्दिष्टप्रकृतिभूतमेकोद्दिष्टमेकादशे ऽहनि । मृतदिवसापरिज्ञाने तच्छ्वणदिवसे अमावास्यायां वा कार्यम् । “अप रिज्ञाते मृतेऽहनि अमावास्यायां श्रवणदिवसे वा’ इति स्मरणात् । अमावास्या यामिति गमनमाससंबन्धिन्याममावास्यायाम्-‘प्रवासदिवसे देयं तन्मासेन्दु क्षयेऽपि वा’ इति स्मरणात् । मृतेऽहनीत्यत्राहिताझेर्विशेषो जातूकण्र्येनोक्तः ‘ऊध्र्व त्रिपक्षाद्यच्छूाद्धं मृतेऽहन्येव तद्भवेत् । अधस्तु कारयेद्दाहादाहिताझेद्वि जन्मनः ॥' इति । तत्र त्रिपक्षादर्वाग्यत्प्रेतकर्म तद्दाहदिवसादारभ्याहिताझे कार्यम् । त्रिपक्षादूध्र्व यच्छूद्धं तन्मरणदिवस एवेत्यर्थः । अनाहिताझेस्तु सर्व मृताह एव । आद्यमेकादशेऽहनीत्याशौचोपलक्षणमिति. केचित् । ‘शुविना कर्म कर्तव्यं’ इति शुद्धेरङ्गत्वात्, अथाशौचापगम इति सामान्येन सर्वेषां वर्णा नामुपक्रम्यैकोद्दिष्टस्य विष्णुना विहितत्वाच्च । तदयुक्तम्-‘एकादशेऽह्नि यच्छाद्धं तत्सामान्यमुदाहृतम् । चतुर्णामपि वर्णानां सूतकं च पृथक्पृथक् ॥ इति पैठीनसिस्मरणविरोधातू–‘आद्य श्राद्धमशुद्धोऽपि कुर्यादेकादशेऽहनि । कर्तुस्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः ॥' इति शङ्कवचनविरोधाच । सामा न्योपक्रमं विष्णुवचनं दशाहाशौचविषयमपि घटते इति । प्रतिसंवत्सरं चैवम् इति प्रतिसंवत्सरं मृतेऽहन्येकोद्दिष्टमुपदिष्टं योगीश्वरेण । तथाच स्मृत्य न्तरम्–“वर्षे वर्षे च कर्तव्या मातापित्रोस्तु सक्रिया । अदैवं भोजयेच्छाद्धं पिण्डमेकं च निर्वपेत् ॥’ इति । यमोऽप्याह--‘सपिण्डीकरणादूध्र्व प्रतिसंव त्सरं सुतैः । मातापित्रोः पृथाकैर्यमेकोद्दिष्टं मृतेऽहनि ॥’ इति । व्यासस्तु पार्वर्ण प्रतिषेधति-“एकोद्दिष्टं परित्यज्य पार्वणं कुरुते नरः । अकृतं तद्विजानीया त्सं भवेत्पितृघातक ॥' इति । जमदग्विस्तु पार्वणमाह-‘आपाद्य च सपिण्ड वमौरसो विधिवत्सुतः । कुर्वीत दर्शवच्छूद्ध मातापित्रोः क्षयेऽहनि ॥’ इति । शातातपोऽप्याह-‘सपिण्डीकरणं कृत्वा कुर्यात्पार्वणवत्सदा । प्रतिसंवत्सरं


१ तु कर्तव्यं क. ग. २ हनीति स्वाशैचोप क. ३ पृथकुर्यात् ख.४ जानीयाद्भवेच ख