पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
श्राद्धप्रकरणम् १०]
८१
मिताक्षरासहिता ।

यत्र वचनदर्शनात् ।–‘स्वगोत्राद्रश्यते नारी विवाहात्ससमे पदे । स्वामेिगोत्रेण कर्तव्या तस्याः पिण्डोदकक्रिया ॥’ इत्यादिभर्तृगोत्रविषयं वचनम् ।–‘पितृगोत्रं समुत्सृज्य न कुर्याद्भर्तृगोत्रतः । जन्मन्येव विपत्तौ च नारीणां पैतृकं कुलम् ॥’ इत्यादिपितृगोत्रविषयम् । एवं विप्रतिपत्तावासुरादिविवाहेषु पुत्रिकाकरणे च पितृगोत्रमेव । तत्र तत्र विशेषवचनात् दानस्यानिवृत्तश्च । ब्राह्मादिविवाहेषु त्रीहियववत् बृहद्रथन्तरसामवत् विकल्प एव । तत्रच–“येनास्य पितरो याता येन याताः पितामहाः । तेन यायात्सतां मार्ग तेन गच्छन्न दुष्यति ॥’ इति (मनुः ४॥१७८) वचनात् वंशपरम्परायातसमाचरणेन व्यवस्था। एवंविधविषयव्य तिरेकेणास्य वचनस्य विषयान्तराभावात् । यत्र पुनः शास्रतो न व्यवस्था नाप्याचा रस्तत्र ‘आत्मनस्तुष्टिरेव वा’ इति वचनादात्मनस्तुष्टिरेव व्यवस्थापिका, यथा गभष्टमेऽष्टमे वाब्दे’ इति । मातुः सपिण्डीकरणेऽपि विरूद्धानि वाक्यानि दृश्यन्ते तत्र–“पितामह्यादिभिः सार्ध सपिण्डीकरणं स्मृतम्’ । तथा भत्रपि भार्याया स्वमात्रादिभिः सह सपिण्डीकरणं कर्तव्यमिति पैटीनसिराह-‘अपुत्रायां मृतायां तु पतिः कुर्यात्सपिण्डताम् । श्वश्वादिभिः सहैवास्याः सपिण्डीकरणं भवेत् ॥’ इति । पत्या सह सपिण्डीकरणं यम आहः –“पल्या चैकेन कर्तव्यं सपि डीकरण स्त्रिया उशनसा तु मातामहेन सह *पितुः पितामहे यद्वत्पूर्णे संवत्सरे सुतैः । मातुर्मातामहे तद्वदेषा कार्या सपिण्डता ॥' तथा—‘पिता पिता महे योज्यः पूर्णे संवत्सरे सुतै । माता मातामहे तद्वदित्याह भगवाञ्छिव ।।' इत्येवं विविधेषु वचनेषु सत्सु अपुत्रायाँ भार्यायां प्रमीतायां भवतः स्वमात्रैव सापिण्ड्यं कुर्यात् । अन्वारोहणे तु पुत्रः स्वपित्रैव मातुः सपिण्ड्यं कुर्यात् । आसुरादिविवाहोत्पन्नः पुत्रिकासुतश्च मातामहेनैव । ब्राह्मादिविवाहोत्पन्नः पित्रा मातामहेन पितामह्या वा विकल्पेन कुर्यात् । अत्रापि यदि नियतो वंशस माचारस्तदानीं तथैव कुर्यात् । वंशसमाचारोऽप्यनियतश्चत्तदा ‘आत्मनस्तुष्टिरेव च' इति यथारुचि कुर्यात् । तत्र च येन केनापि मातुः सापिण्ड्येऽपि यत्रान्वष्टका दिषु मातृश्राद्धं पृथग्विहितं—‘अन्वष्टकासु वृद्धौ च गयायां च क्षयेऽहनि । मातुः श्राद्धं पृथकुर्यादन्यत्र पतिना सह ॥” इति, तत्र पितामह्यादिभिरेव पार्वण श्राद्धं कर्तव्यम् । अन्यत्र पतिना सहेति पतिसापिण्डये तदंशभागित्वात् । माता महसापिण्डये तदंशभागित्वातेनैव सह । यथाह शातातपः-‘एकमूर्ति त्वमायाति सपिण्डीकरणे कृते । पली पतिपितृणां च तस्मादंशेन भागिनी ।।' इति । एवं सति मातामहेन मातुः सापिण्डये मातामहश्राद्धं पितृश्राद्धवन्नित्यमेव । पत्या पितामह्या वा मातुः सापिण्डये मातामहश्राद्धं न नित्यम् । कृते अभ्यु दयः अकृते न प्रत्यवाय इति निर्णयः ॥ २५३ ॥ २५४ ॥


१ विरुद्धानीव ख. २ मृता यदि तेनैक्यं क