पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८०
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

नोच्चारयेत् अपितु पितृशब्दमेवेत्येवमर्थम् । नन्व प्रकर्षगमनात्तत्रैव प्रेतशब्द यतो विशिष्टदुःखानुभवावस्था प्रेतशब्देन रूढ्याभिधीयत इत्युक्तम् । योऽपि प्रमीतमात्रे प्रेतशब्दप्रयोग सोऽपि भूतपूर्वगत्या । ‘सपिण्डता तु पुरुषे ससमे विनिवर्तते’ इति च प्रथमस्य पिण्डस्य चतुर्थव्यापित्वात् द्वितीयस्य पञ्चमव्यापि त्वात् तृतीयस्य षष्ठव्यापित्वात् ससमे विनिवर्तत इत्येवमपि घटते । अपिच नि सापिण्डयं अव्यापकत्वात् अपित्वेकशरीरावयवान्वयेने त्युक्तम् । पितृशब्दश्च प्रेतत्वनिवृत्या श्राद्धदेवतैाभूर्यगतेषु वर्तत इति पितृपात्रे ष्वित्यविरुद्धम् । तस्मादनन्तराचार्येण पूर्वपक्षद्वारेण परमतं दर्शितमित्य मृतपात्रोदकस्य तत्पिण्डस्य च पितृपात्रेषु तत्पिण्डेषु च संसर्जनमिति स्थितम् । आचार्यस्तु परमतमेवोपन्यस्तवान् । एतच्च पितुः सपिण्डीकरणं पितामहादिषु त्रिषु प्रमीतेषु वेदितव्यम् । पितरि प्रेते पितामहे वा जीवति सपिण्डीकरणं नास्त्येव व्युत्क्रमाञ्च प्रमीतानां नैव कार्या सपिण्डता’ इति वचनात् । यतु मनुवचनं (३॥२२१)-पिता यस्य निवृत्तः स्याज्जीवेद्वापि पितामहः । पितुः स नाम संकीत्र्य कीर्तयेत्प्रपितामहम् ॥” इति, तदपि पितृशब्दप्रयोगनियमाय न पिण्डद्वयदाना र्थम् । कथम्--'धियमाणे तु पितरि पूर्वेषामेव निर्वपेत् । पिता यस्य तु वृत्त स्याज्जीवेच्चापि पितामहः ॥’ सोऽपि पूर्वेषामेव निर्वपेदित्यन्वयः । पक्षद्वयेऽपि कथं निर्वपेदित्याह-‘पितुः स नाम संकीत्र्य कीर्तयेत्प्रपितामहम्’ इत्याद्यन्त ग्रहणेन सर्वत्र पितृभ्यः पितामहेभ्यः प्रपितामहेभ्य इत्येवं प्रयोगो न पुनः कदा चिदपि पितामहस्य प्रपितामहस्य वाऽऽदित्वं वृद्धप्रपितामहस्य तत्पितुर्वान्तत्वम् अतश्च पितादिशब्दान संबन्धिवचनत्वात् ध्रियमाणेऽपि पितरि पितुः पितृभ्य पितामहेभ्यः प्रपितामहेभ्य इति पितामहे ध्रियमाणे पितामहस्य पितृभ्य पितामहेभ्यः प्रपितामहेभ्य इति । अतश्च पिण्डपितृयज्ञे शुन्धन्तां पितर इत्यादि मम्राणामूहो न भवति । यदपि विष्णुवचनै-‘यस्य पिता प्रेतः स्यात्स पितृ पिण्डं निधाय पितामहात्पराभ्यां द्वाभ्यां दद्यात्' इति । तस्यायम श्रः । पिता महे ध्रियमाणे प्रेते च पितरि पितुरकं पिण्डमेकोद्दिष्टविधानेन निधाय पितुर्ये पितामहस्ततः पराभ्यां द्वाभ्यां दद्यात् । पितामहस्त्वात्मनः प्रपितामहः संप्रदा नभूतः स्थित एवेति प्रपितामहाय ततः पराभ्यां द्वाभ्यां च दद्यादिति ब्दप्रयोगनियमस्तु पूर्वोक्त गोब्राह्मणादिहतस्यापि सपिण्डीकरणा भावो वेदितव्यः । यथाह कात्यायन ब्राह्मणादिहते ताते पतिते संगव र्जिते । व्युत्क्रमाञ्च मृते देयं येभ्य एव ददात्यसैौ ।।' इति । गोब्राह्मणहतस्य पितुः सपिण्डीकरणसंभवे तमुलंध्य पितामहादिभ्यः पार्व सपिण्डीकरण्णाभावोऽवगम्यते । स्मृत्यन्तरेऽपि–‘ये नराः संततिच्छिन्ना नास्ति तेषां सपिण्डता । न चैतैः सह। कर्तव्यान्येकोद्दिष्टानि षोडश ॥’ इति । मातु पिण्डदानादौ गोत्रे विप्रतिपत्तिः । भर्तृगोत्रेण पितृगोत्रेण वा दातव्यमिति उभ-


१ अव्यापित्वादपि तु क. २ देवतामुपगतेषु ख.