पृष्ठम्:यतिराजविजयम्.pdf/97

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ole, ءvV,1: चतुर्थोऽङ्कः 55 ५१ देवी तिष्ठतु सा मम प्रियसखी देव ! त्वया चिन्त्यतां मिथ्यादृष्टिविलासमीहितमतिः किं किं न कुर्यादिति । तत्वों द्रष्टुमपि प्रगल्भगणिकाधूर्त न सम्मन्यते देवी किं त्वनुनीतिकल्पलतिका दक्ष्य हस्ते स्थिता ॥ ११ ॥ राजा-देवीं कथमिदानीमपि पश्यन्नानुयामि (सखेद ) मलयपवनो मर्मच्छेदी मधुव्रतनिःस्वनः श्रवणपरुषो वर्षत्यमिं स्फुलिंगमयं शशी । भवति च मनश्शल्यै माकन्दभूरुहमञ्जरी सुमतिविरहे सर्वो लोको भवत्ययमन्यथा । १२ । सुनी -सुमतिसंयोगे पुनरपि सर्व यथावस्थितं भवत्येव । राजा-(विचिन्त्य N आजिघ्रन् मुखपुण्डरीकममलमासज्य गण्डस्थलीम्। आर्चुबन् अनुभावयन्ननुभवन् अन्तर्विशन्तीमेिवY आश्लिप्यन् दृढमपिबन्निव दृशा पश्यन्मुहुः प्रेयसीम् `ञ्७ आत्माने चरितार्थयामि सखि ! तमानेप्यसि दें यदि । १३ । सुनी -देव ! किमेवै आज्ञाप्रतीक्षे दासजन स्वातन्व्यमारोपयसि ? सम्यगानीतामेव देवों द्रष्क्ष्यसि । राजा-(सलञ्जम) दुर्मन्त्रिवचनान् ईदृशप्रेमशालिनी त्वामपि दुरीकुर्वतो मे ललित्यमपि दोषाय ! सुनी -(सभयम) देव! मैवं अनुतमुमर्हसि । सर्वस्यापि प्रभवति। खलु स्वामी। संप्रति देवप्रसादेन कृतार्थाऽहं देवीमपि कृतार्थयामि | ( इति निष्क्रान्ता ) राजा -(देवी विचिन्तयन्) सासूये शफरीविवृत्तिषु दृशैौ शाङ्गं न शकास्पदं ध्रुवली ललितस्य कैशिकतुला वैदेशिर्क शैवलम् ।