पृष्ठम्:यतिराजविजयम्.pdf/75

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽङ्कः ** राजा- (विवशमवलोकयन् । इतिहास ! दुःखसlगरे निमजतो मम यानपात्रमसि । सैौदामिनीव मेर्ध मां त्यत व मायाविलसिनी। गताऽहं किं करिष्यामि विरहानलविह्वलः । २४ । कथय, कथं तामसादयामि ? इतिहास:-{ विमृश्य) किमपराद्धे देवेन ? राजा न हि न हि : भरतशाप'मवधीरयन्त्यास्तस्य]ः प्रकृतगीतिरेवापराध्यति । इति - विमृश्य भ्वगतं ) ह! ! मुग्धे वधैकिं! गर्दभीवत् स्ववाग्दोपेण हतासि । ( निरूप्य प्रकाशम् ) संप्रति ऊर्वशीविरहितस्य पुरूरवसोऽवस्थ। देवमुपस्थास्यति । तदतन्मन्त्रिणे निवेदयामेि । {इति निष्क्रान्तः } राजा-- कथमेकाकी शोकसागरं निस्तरार्म ? ( ततः प्रविशति यतिग्ाज., सुनीतिश्च ) यतिराज:- भद्रे! मायाकुट्टिनीवियोगविह्वल महाराजमावासयितु तत्सुहृदा यामुनेन समादिष्टोऽस्मि : तदास्मन्नवसरे सुमतिसंख्यास्ते दर्शनं क्षते क्षारमिव राज्ञो भवति ; ततः, कचित्तिरोहिता राजकुलवृत्तांतमुपलभ्य सस्यै निवेदय । सुनी -- तथा करोति ) यति - (किंचिदुपम्य) देव ! विजयस्व। राजा-- ( सादरं पश्यन्न } चिन्तसमकालमागतोऽसि ; त्वमेव मे दुःखार्णवनिममस्य कर्णधारो भव ! यति - ( सदयम्) कथमेतत् ? राजा— किं न पश्यसि वेिरहविक्लबान्यङ्गानेि ? यति -- ( स्वगतम् ) तावदेनं शोधयामि ! ( प्रकाशम् ) देव ! देवी सुमतिरपि किमेवमपराध्यति ? 1. भगणयन्त्यस्तभ्यः -०