पृष्ठम्:यतिराजविजयम्.pdf/68

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

惣く यतिराजवेिजयमू-नाटकमू राजा-(विचिन्य) किमेष वेदविचार एव ? मन्त्री - कोऽन्य एवमाचरति ? (विमृश्य ) देव ! न केवलमेतावत् । राजा-किमन्यत् ? मन्त्री-(तूष्णीमधोमुखस्तिष्ठति ) राजा-वक्तव्ये सति किं भयेन? मन्त्री-किविलोकायतिकीपसृष्ट इव लक्ष्यते । राजा-(सभयम) कथमेतत् ? मन्त्री-यदिदानीम्; शब्दैकशेषवपुषस्सकलश्च वेदाः विश्वं निरीश्वरमिदं न परे च लोकाः । कर्मेव सर्वफलदं कृषिवनराणा मित्यादि चिन्तयति वेदविचार एषः ॥ ४ ॥ राजा---( कर्णौ पिधाय } शान्तं पापम्, शान्तं पापम् । धर्मपरोऽप्ययं इतिहासपुराण - वेदसिद्ध - सर्वकर्माराध्य - तत्फलप्रद-तद्देक्ताविशेष- तदन्तर्यामिसर्वेश्वरादिकमनङ्गीकुर्वनर्धचार्वाक एव । सर्वात्मनाऽथयमुन्मूलनीय एव । मन्त्री--(स्वगतम्) सिद्धं नस्समीहितम् । तावदेनं मिथ्यादृष्टिविलासमीहितं कृत्वा विषयान् अमुप्याऽपलप्य अनुभवामः | ( प्रकाशम् ) देव ! निर्विशेषविज्ञानव्यतिरिक्तमखिलमिदमैश्वर्यै मिथ्येति जानसि : तदनेन चिदानन्दानुभवारस्य ते न किचित् कार्यमस्ति। तथापि, मायाविलासिनीविलसानवलेकयन् विहरस्व । ( ततः प्रविशति मिथ्यादृष्टिः ) मिथ्यादृष्टि:-(पुरोऽवलोक्य सकौतुकम) पिला मे मायावादेन सह सलपमहाराज स्तिष्ठति । तावदेनम् उपसर्पामि ! ( विमृश्य ) अभिनवस्यास्य हृदयमजनिती कथमुपसर्पमि । यद्वा,