पृष्ठम्:यतिराजविजयम्.pdf/69

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

fġħāist: १९ बालो वा यदिवा जरन्नपि युवा तिष्ठत्वर्य रागवान्, स्त्रीमात्रेऽपि लनात्ययं यदि मय! स्पृश्येत किंचित्वचित् ! कृत्याकृत्यविधिं विघूय गतिमप्यन्यामजानन् सदा मध्येवर्षिनमानसी न गणययिष्यागतमुर्घशीम्। ५ । (विमृश्य | सापि मयाऽनुभूय दत्तान् मदनुज्ञया अनुभवति । मुक्तिरपि कैवल्यवन्मया भुक्तकििञ्झता। ननु भवति ? राजा- ( पुरोऽवलोक्य सपरि तोषं } हा किमेतत् ? मामन्यथा विदधती मधुरैरपाङ्गैः मायेव काऽपि ललिता मकरध्वजय ! अङ्गेरनन्यसदृशैरपरीक्षयन्ती शृङ्गारतत्त्वमुपयातिं सरोरुहाक्षीं ।। ६ ।। मन्त्री- ( स्-गतम्) विरक्तोऽपि सम्यगनया वशीकृतो भवति । (प्रकाशम ) देव ! भुवनलयमोहनप्रगल्भमेतत् प्रमदारले महाराजमेव सेवितुमर्हति । देवेन च दृष्टमस्य लावण्यम् । किंञ्च, संगीते द्रवतां नयायपि शिलां वादित्रविद्यासु चेत्। गन्धर्वेष्वपि कोऽपि नेदृशगुणो लयस्ये तु गौरी स्वयम् । निर्द्धन्द्व नृपनीतिक्र्मनिजगत्यद्वैतवैदृष्यभूः दक्षा कामकलासु देवा! भक्ती देवीपदं चर्हति ॥ ७ ॥ राजा-(सबहुमाने क्रमवलम्ब्य, सानुरागमासनाधैं निवेशयति) मन्त्री---(रूगतम्) वार्यां(?)निपातितो वारणपतिः ! प्रकाशम् ) देव! सुखफलान्येव राज्यानीति पुरन्दर - पुरूरव:प्रभृतिषु दृष्टमेव देवेन |' तदियं वेश्येति नोपेक्षमर्हति । न हि कस्यापि रत्नभूतस्य दोषोऽस्ति । अत एव हि पुण्यशील, पुरूरवा वेश्याक्प्युर्वशी महादेवीपदे निवेशिसवान् । किच्च,