पृष्ठम्:यतिराजविजयम्.pdf/64

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

a यतिराजविजयन्-नाटकमू (विचिन्य) जगच्चक्षुरिदं ज्योतिरनञ्जनमनामयम् । वैष्णवैरेव तेजोमिः वर्धते दीप्ततारकम् ।। ४६ ॥ धमैः-- · अन्यथा, कथमीदृशोऽनुभावस्स्वत ? यति -परमव्योमक्षीरसागरादिवदेदमपि परमपुरुषस्थ विशेक्सधिानस्थानम्। उज्ञामधेयमुफुल्लपुण्डरीकविलोचनम्। पश्यन्ति हि परं ज्योतिः केचित्न हिरण्मयम् ॥ ४७ ।। ( विचिन्त्य. सानन्दम्) सोऽयमभिजिन्नाममुहूर्तः सवैविजयावह इति ज्योतिर्विद अाममन्ति । तदन्नास्माभिरुद्योगः कार्यः । (विचिन्त्य) कुतस्ते भ्रातl प्रवृतिवल्लभो धर्मः ? धर्म:।- प्रवृत्तिपरतन्त्रः तत्प्रियेण वेदविचारेण बहुमन्यमानः तत्पार्श्वे तिष्ठति । यति - किमसौ भक्सौभ्रात्रभ्नुतिष्ठति ? तन्मुखेन वेदविचारवृत्तान्तं वेदितु मिच्छामि । धमेः- किमन्न विचारेण ! तत्त्क्तो निरूपणे स एवाहमसि; किन्तु, सर्वलोकविप्रलम्भचतुरया मप्रियां नेिवृर्ति प्रति बद्धवैरया प्रवृत्या कलुक्तिहृदयी मदन्य इव वर्तते, तन्मुखेन विदितश्च मया वेदविचारवृत्तान्तः । यति -(सादरम्) तहिँ क्स! कथ्यतामू । धमै- चार्वाकेष्णाभियुक्त एव । यति - (सभयकौतुकम्) कथनेतद्भविष्यति? अथवा, किमन्यद्भविष्यति : उतिgमानं चार्वाकं प्रकृत्या वेदविरोधिनी मायावादसौगर्तौ दिगम्बरश्धानुवर्तेरन्; तैरभियुज्यमानं वेदविचारं मात्त्रया वेदानुरोधिनोऽपि तत्कृतबहुविरोधमनुसरन्त: कफ्लिपतज़लेिकणभक्षक्षचरणसमया उपेक्षेरन, एवं सत्यात्म निरपेक्षमुपर्युपरि निपत्य निशितनिस्त्रिशनिष्ठुँरैस्तकै खण्डयतरतर्कशरान् स्वाङ्गमात्रशेषः किं करिष्यतिं वेदविचारक्तपस्वी ?