पृष्ठम्:यतिराजविजयम्.pdf/59

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽङ्कः ܟ (ततः प्रविशति राजा) राजा- (विमृश्य ) सम्प्रति, मन्त्री मायावादः समयान्तरमदहरणशुण्डीरः; तथाऽपि, मानार्थतत्त्वहीनो 'मायाजीवी महामृषावादी । सुमतिसुनीतिद्वेषी ( निश्वरस्य, सखेदम् ) मामप्येवं करोति किं कुर्मः ॥ २९ || (विमृशन्, विहस्य) भेदोपजीव्यपि भिनत्ति तमेव भेदं

  • मानं प्रतिक्षिपति मानपरायणोऽपि । सोऽयं प्रमाणपुरूषैः स्वकरोपनीतान्

मिथ्येति वक्ति मिषतोऽपि हरन्महार्थान् ॥ ३० ॥ तदल किं प्रतिविधेयम् ? (विचिन्य) तीवदयमनुसरणीय एव, यावदस्मदनुकूलोऽन्यो नीतिशाली कश्चितत्पदे निवेशितस्यात्; अन्यथा, मामरातयो जीवग्रहं गृह्णीयुः । प्रतीहारी-(प्रविश्य) देव ! महामात्यो मन्त्रशालायाँ युमदागमनमाकाङ्क स्तिष्ठति। भास्करयादवैौ च तथैव । राजा - (विचिन्त्य ) अथवा, सम्भ्रति किं विचारेण 4 सर्वमिदं प्रागेव प्रियसुहृदा यामुनेन सूचितमेव। इदनीमयमनुसरणीय एव। (पुरोऽवलोक्य), त्रिदण्डकाषायशिखोपवीतै: प्रसादयन् पारमहँसलक्ष्मीम् । वैकुण्ठभारोपयितु मुमुक्षन्। सोपानकारी यतिराज एषः । ३ १ ।। ( इति निष्क्रान्तः ) 1. मायावाद: -पा० 2. मानानि दृषयति मानपरायणोऽपैि-पl० 3. མ་ཕམ-tt