पृष्ठम्:यतिराजविजयम्.pdf/60

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

to यतिराजविजयमू-नाटकमू ( ततः प्रविशति राम्ानुजः ) रामानुजः-{ मखेदम् ) वासी मुक्तपष्टचराणि वसतिर्मुले तरीभौंजने भिक्षा'स्सप्त नवा जले तु सुलभं त्यक्तास्समस्तेषणा: ! वर्गेषु लिषु निस्स्पृहो भगवति न्यस्तात्भभारोऽपि सन् चिन्तादन्तुरमानसोऽस्मि सचिवश्श्रीवेदमैौलेहम् ॥ ३२ ॥ यद्यहम् 'आत्मारामस्य मे किमेभिर्मनोव्याक्षेपैरित मौनमास्थितस्स्याम्; तदा कुमतिसमयैरपहृतविषयो वेदमौलिः कः पदमादध्यात् ? ततस्तदनुसारिणी परमपुरुषार्थकथा धर्मकथा च न कचितिष्ठतीति सकलजीवलेकसन्तापस्स्यात्। तस्मादनेकजीवलेकसन्तापादेकसन्तापो वरमित्यसदुद्योग एव श्रेयान्। (स्पर्शमभिनीय, सानन्दम्) मदन्तस्संतापं शमयितुमलं रङ्गनगरी समीराः कावेरीशिशिरलहरीशीकरमुचः । समुत्पुष्यल्लक्ष्मीस्तनतटपटीस्द्रवमिलन् मुकुन्दोरः:क्रीडारसिकतुलसीसैौरभमुषः ॥ ३३ ॥ ( परितोऽवलोक्य ) न कश्चिद्राजकुलादभ्येति । अस्माभिः प्रहितो धर्मध विलम्बते । ( ततः प्रविशति धर्मः) धर्मः-- ( पुरोऽवलोक्य ) अहो ! अतिरमणीयमिदमुद्यान्म् | अत्र हि, फलकुसुमविनम्रपाश्र्वशाखो मुनिजनसेवितमूलवेदिबन्धः । रमयति हृदयं रसालपोतो मधुकरगीतमनोज्ञकृष्णलीलः ॥ ३४ || (पुरोऽवलोक्य, सविनयमञ्जलिं बध्वा } स एष खलु सकलपाषण्डतिमिरषण्डचण्डकर: चरमाश्रमरूपी परमकारुणकी भगवद्क्तरः । 4·q官甲一田。