पृष्ठम्:यतिराजविजयम्.pdf/57

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽङ्कः ( ततः प्रविशति नारदो भरतश्च ) नारदः-- सर्वैर्विलुप्तविषयः .... ( इति पुनस्तदेव पठति ) भरत:-सर्वङ्कषो हि महिमातिशयो यतिराजस्य, यदयमेवं विधास्यति । नारदः- किमत्राश्चर्यम् ? निरस्य तिमिरं भानुः निधते जगति श्रियम् । एवमेने यतीन्द्रोऽपि स्वपदे स्थापयिष्यति । २३ । भरत:-भगवन् ! अनभिज्ञतया निदानमस्य वेदितुमिच्छामि । नारदः - देवरहस्यमिदम् ; सात्विकादन्यत्र रक्षणमर्हति । मायाविमोहितसुरान्सुानलावीद् येनाच्युतस्स कुहनासमयैर्मनुष्यन् । सम्मोहयत्सु पुनरेषु सुदर्शनाऽपि तानेव जेतुमधुना यतिशेश्वरोऽभूत् ।। २४ ।। तदस्य सर्वमीक्षरकरमवधारय । भरत:- सहर्षम) तहिं जिते महाराजेन । नारदः--(विचिन्त्य, सबहुमानम् ) सर्धस्यापि हित ब्रवीति समयाचारान करोति स्थिरान् मायाजीवपरानर्थ न सहते मानप्रतापोन्नतः । सम्मान्यम्सकलासु नीतिपु महामत्त्वः स्थिराङ्गो युवा तस्मान्नेतृषु वेदमैौलिसदृशो नाभ्योऽस्ति कश्चिन्नृपः ।। २५ तथाप्येनमन्ये परिभवितुमीहन्ते-इति महदाश्चर्यम् । नारद: किमत्राश्चर्यम् ? परिभूता एव महाराजविषयः परसमयनासीरै भरत:- सभयकौतुकम) किं मूलमेतेषां सम्भूय समुत्थानस्य । नारदः-वत्स ! साधु पृष्टं भवता । सन्ति खलु महाराजस्य प्रत्यक्षादयो महामात्यः भरतः-सन्त्येव ; येष्वेव प्रमाणबुद्धिर्महाराजस्य ।