पृष्ठम्:यतिराजविजयम्.pdf/52

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिराजविजयमू-नाटकमू नान्द्यन्ते सृत्रधारः सूत्रधारः-- भास्वानेष तमो निहन्ति सकलप्रह्लादकारी शशी किं तवेव फलादिभिश्च तरव: किं नोपकुवैन्ति नः । एवं वस्तु परोपकारि सकले दृgऽपि नष्टाशयो यस्स्वार्थैकपरो भवत्ययमहो दृष्टान्तशून्यो जनः ॥ ४ ॥ तथाप्येककी किं करोमेि ? (विमृश्य, सहर्षम्) अथवा किं न करोमि अस्ति किल समस्तकलासु अद्वितीय: द्वितीया मे देहः । (नेपथ्याभिमुख मवलोक्य,) मारिष ! परिषदि पौरुषं ते किं न दर्शयसि ? नट:-(प्रवेिइय) उपकर्तुरात्मविद्याननवद्यां भरतमुख्ष्मुनिष्हृद्याम् । तव चात्मलाभतुष्टः प्रत्युपक(वाणि भाव ! केनाहम् || ५ || सूत्न-मारिष ! किमन्यट्टवीमि । सुर - नर - तिर्यक् - स्थावरदेहास्सर्वेऽपि नश्वरा एव । तत्क्षणमपि यदि जीवेत् जीवतु देही परोपकारेण । ६ । तत्वया सह महतीं नाटकधुरामुद्रहनात्मानं चरितार्थयामि । नट:-भाव l तन्निवेद्यतां येनाहमपि चरितार्थों भवामेि ! सूत्र-सम्प्रति समसमयसग्पतदपरिमितनिगमकुलमणिमकुटनटमरीचिमञ्जरीरञ्जितचरणकमलस्य जगदुदयविभवलयलीलस्य कमलवनीकुचकलशकपेोलनलयुगलयुगपदभिलिखितपत्रावलींपरितुष्टकाकिसलयचतुष्टयस्य 'कावेरीतीरतरुणतमालभूरुहस्य विभीषणाराधितपादपङ्कजस्य भुजङ्गराजभोगपर्यङ्कशाiयन: श्रीरहूराजस्य चैत्रोत्सवयात्रायामू, आत्मविद्याविदर्धे अनवर्तनिरवद्यभरतविद्याविनोदैरार्यमिश्रैरादिष्टोऽस्मि ; यदुत, " अस्ति खलु भगवद्रामानुजमुनेः पूर्वाश्रमभागिनेयः श्रीक्सकुलचूडामणि: अखिलप्रदर्शनमदकर्शनः सुदर्शनी ]. कlवरीमध्यमरकतमणिभूषणस्य -पा०