पृष्ठम्:यतिराजविजयम्.pdf/51

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरस्तु श्रियः कान्ताय नमः श्रीमते रामानुजाय न:f: वेदान्तविलासापरनामधेयम् यतिराजविजयम-नाटकम नान्दी पक्के त्वन्नयने स्मरामि सततै भावो भवल्कुन्तले नीले मुह्यति किं करोमि महितैः क्रीतोऽस्ति ते विभ्रमैः । इत्युत्स्वमवचो निशम्य सरुषा निर्भत्सितो राधया कृप्णस्तत्परमेव तद्यपदिशन् क्रीडाविष्ट: पातु वः ।। ५ ।। किञ्च, शय्या यस्य दृशा शृणोति 'भवति छन्दांसि' यद्वाहनम् लीला यस्य जगन्ति कालकलनामूले च यल्लोचनम् । निद्रा जाग्रत एव यस्य *निगमस्तोमोऽवतंसोत्पलम् देबः पुष्यतु रङ्गमङ्गलनिधिः श्रेयांसि भूयांसि नः ।। २ ।। ब्रह्मात्राणप्रवीणो धृतधरणिधरः क्ष्मसमुत्क्षेपदक्षः प्रह्लादहादकारी मथिलबलिबले भमराजन्यजन्यः । 'लङ्गालङ्कारहारी हलहतकलहो वल्लवोल्लासकारी भावी पाषण्डशत्रुः भक्तु मधुरिपुः श्रेयसे भूयसे नः ॥ ३ ।। 1.ཅཤaiམིག་ཁ-l 2. छन्दोमयं वहनम् ~~-पा० B. निगमस्तोमावतंसोत्पल्लम् -~~-पा> 4. issergrità --- q