पृष्ठम्:यतिराजविजयम्.pdf/43

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3. the leading incidents in the life of Srimath Ramanuja ACharya - ຈໍາ व्याग्व्यानमिदं वेदान्तविषयविवेचनपरं रमणीयं संक्षिप्तं अपेक्षितविषयमात्रविशदीकरणप्रवणं 'धाविद्याख्यान' मुफ्लभ्यते ! केचन प्रघट्टा इतःपूर्वमेवास्मानि: सहृदयानां मानसोल्लासाय सन्दर्शिताः । म्थुलन , आदित आरभ्य अन्र्त, सारतमा विषया अनुबन्धे निवेदयिष्यन्ते । अत्य व्याख्यानन्य प्रणेता की वैति, तस्य कालदेशादिकं किमिति च न ज्ञायते । प्राचीनानां महतां प्रायशी धरणी इयमेव हि. यत्स्वनामादिकं न स्ल्यप्यते, म्ववैभवप्रकटने च न सह्यते, अहङ्कारममकारमर्पणफ्रतयेति । ' श्रीवेदान्तविलासस्य नाटकस्य यथामति । प्रणम्य वरदं व्यास्त्र्या क्रियते रत्नदीपिका || इति मङ्गलश्लोकेन प्रथमेन, “ अन्तर्वेदान्तसाम्राज्यम्' इत्यादिना द्वितीयेन च संक्षिसभाषिणा व्याख्यकृता, अंशद्वयं परमत्र समुट्टङ्गितम् - व्याख्यानस्य नाम रत्रदीपैिकेति, वरद: इष्टदैवतमिति च । रत्नदीपिकेनेि सर्वथा अन्वर्थमिद नामधेयम्। अयं वरदः, देवो वा, गुरुर्वा, उभैौ वा । तेन वरददैवतोपासकः, वरदाचार्यस्य शिष्योऽयं भवति । वरदस्तु काञ्चीपुर्या विराजमानः; अतः ग्रन्थकर्तुरावासभूमिः काञ्चीपुरी भवितुमर्हति - इत्यभ्यृहः समुचितो वेति सुधियो विभावयन्तु | एतदपेक्षया अन्यत्किमपि तदधिकृत्य न ज्ञायते । मूलस्य तु अनेका मातृका अस्मत्युस्तकालये, अन्यत्र च उपलब्ध; । ताभिस्सह समीकृत्य, तत्रया; पाठभेदा अधो निवेशिता: । व्याख्यानसन्दर्शनेन कंचन नृतना; पाठभेद उपलभ्यन्ते, ते, अन्ये च तत्रत्या विशेषा: सर्वे, अनुबन्धे प्रदर्शयिप्यन्ते । मूलस्य प्रागेव मुद्रणस्य निष्पन्नतया व्याख्यानमिद अनुबन्धरूपेण संमुद्रद्यते प्रत्यकशः । अतोऽत्र क्षम्यतां वत्सलैः पाठकमहाशयैरिति संप्रार्थ्यते ।