पृष्ठम्:यतिराजविजयम्.pdf/41

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

33 म्र्त्रीपात्रेषु - सुमतिः - पट्टमहिषी, उदारमङ्गलगुणा, वेदान्तस्य तुल्यशीलवयं वृत्ता, तुल्याभिजनलक्षणा, अनन्यार्हत्व-अनन्यशरण्यत्व - अनन्यभौम्यत्वरूप - आकारलयसम्पन्न सकललोकोजीवनकरी राज्ञश्वत्यन्तवल्लभ सम्यगुपवर्णिता । तस्याः सख्यै सुनीतिः, गीता च महनीयमङ्गलगुणचरित्रे. नायिकानायकयोरत्यन्नप्रणयिन्यै,संघटनकर्मणि नितरां जागरुके समुपवर्णिते । अत्र कवि:, उत्तररामचरित्रे निबद्ध: - सीता - तमसा - वासन्तिकः, शाकुन्तले चोपनिबद्धाः - शकुन्तला - अनसूया - प्रियंवदाश्च स्मारंस्मारं, एताः सुमतिं - सुनीति गीताः चित्रितवानित्यभ्युहम्समुचित इव प्रतिभाति । अन्यत्सर्वं पाठकमहाशायैरेव सहृदयैः स्वयमनुभूयत एवेति विम्तरभीत्या विरम्यते । अस्मिन् नाटके - प्रथम, द्वितीय, चतुर्थं, पञ्चम, पष्टाङ्केषु पञ्चसु विष्कम्भाः, तृतीयाङ्के प्रवेशकश्च, घृतवर्तिप्यमाणानां कथांशानां निदर्शनाय उपनिबद्धाः । तत्र, प्रथमाङ्के - ‘* नारं ददातीतॆि नारदः 'इति व्युत्पत्या लोकानां विज्ञानप्रसादकौ नारदः · नाट्यद्वारा पण्डितपामरसाधारण्येन किज्ञानामृतसेचकाय भरताय, तन्मुखन सर्वलोकेभ्यश्च, यतिराजस्य सुदर्शनावतारलं, तद्दर्शनग्य परमार्थत्वमू, परमहितत्वम् , वेदान्तम्य अत्यन्तान्तरङ्गत्वम् , तेनैव तस्य सकलप्रत्यर्थनिरसनेन स्वपढे व्यवस्थापर्ने च ग्ल्यापयनीति, सुमहानयमामोदः ! चतुर्थाङ्के च—गीताजनकयोः सम्+षणेन, विष्णो: दिव्यमङ्गलविग्रहस्यानुभव, जीवपरयोनै स्वख्पैक्यम्, किंतु स्वभावैक्यमेव - इत्ययमपि प्रधानांशी विग्ल्यापित इति सुमहान् अनुग्रहश्च || ग्रन्थकर्तकालदशादिविवरणम भाष्यप्रवचनप्रथितविभवानां श्रीभगवद्रामानुजमुनिपूर्वाश्रमभगिनेयस्य श्रीमत्सृदर्शनाचार्यापरनामधेयस्य श्रीमद्वात्स्य--- वरदविष्णुगुरुर्तेसस्य पैत्राणां वात्स्यवरदाचार्याणां पञ्चमा इति स्पुटं तैरेवोत्कीर्तनात् ज्ञायत एव । तन्नामतैौल्यादेतानपि ‘* अम्माळ ' इति अभिधातुं प्रवृत्ता जना इति प्रतिभाति ।