पृष्ठम्:यतिराजविजयम्.pdf/39

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

沮

  • नायमात्मा प्रक्चनेन लभ्यो न मेधया न बहुना श्रुतेन ।

यमेवैष वृणुते तेन लभ्यः, तस्यैष आत्मा विवृणुते तनूर्गे स्वाम् इति भगवती श्रुतिरियं, परमपुरुषवरणीयताहेतुगुणेन तद्विषयकनिरन्तरप्रीतिरूपेण परमेण भक्तिप्रकर्केण परिपूर्ण एव महात्मनि भगवतोऽनुग्रहः प्रसरतीनि उपदिशति ।

    • प्रियत्म एव हि वरणीयो भवति ; यम्यायं निरतिशयप्रियः, स एवाम्य प्रियतमो भवति ?' इति, प्रपञ्चितोऽयमर्थः श्रीभगवद्रामानुजमुनिचरणैश्च श्रीभाष्ये |

नान्दीमारभ्य प्रस्तावनायाम् , ग्रन्थान्ते च, विशिष्य भगवद्धतिरेव विपुलतम व्यञ्ज्यत इति, उपक्रम - उपसंहाराभ्यां अभ्यामेन, अर्थवादीपपत्यादिना च प्रधानी रसो भक्तिरेवेति व्यवस्थापयितुं शक्यत एव ! ननु ** रतिर्देवादिविषया व्यभिचारी तथाचितः, भावः प्रोक्तः ?’ इति, · देव - द्विज - मुनि - नृप - पुत्रादिविषयां रतिमुत्कृष्टामपि ' भवि ' मेव खलु व्यवहरति सन्तः, न तु रसं प्रामाणिकाः इति चेत्, अत्र ब्रूमः । “ प्रमोदात्मा रति “ रिति वचनात् रतिप्रीत्योरेकार्थतया भक्ति - वात्सल्यादीनामपि श्रृङ्गार एबान्तर्भावः । देव - अफ्यादिविषयया स्नै श्रृङ्गारव्याक्हारो नाम्तीनि चेत्। माभूद्धावहार, तथाप्यसै श्रृङ्गारान्नाििरच्यते । न खलु अमिरिनैिं व्यवहारी नाग्नीति सुवर्ण भूतान्तरं भवितुमर्हति, अपितु तेज एव । अयं तु विशेयः – कान्नाविषयो रत्युत्कर्य: शृङ्गार इनि व्यवहयते, अत्यविषयस्तु “वत्सल" दृति, देवादिविषयश्च “भक्त:" रिति ; सर्वत्रापि म्र्थायिन एकत्वमेवेतेि । एवंसति `' नवैव रसा इति मुनिवचननापि न विरोध: { वस्तुतस्तु, पुरुषोत्तमविषये ** स्त्रीप्रायमितरं जगत् ' इति सर्वस्यापि जगतः स्त्रीप्रायरूपत्वात् , तस्मिन् विद्यमाना रतिः शृङ्गार एव स्वरसनया भवितुमर्हतीति प्राहुः सहृदयतल्लजाः शुद्धान्तसिद्धान्तिनः । तथाहि · ·

    • पुंस्त्वं नियम्य पुरुषोत्तमताविशिष्टे स्त्रीप्रायभाक्कथनाज्जगतोऽखिलस्य ।

पुंसां च रञ्जकवपुर्गुणवत्तयापि शैरेिश्शठारियमिनेऽजनि कामिनीत्वम् | या प्रतिरति विषयेष्वविवेकमाजों सैवाच्युते भवति भतिपदाभिधेया । भक्तिस्तु काम इह तत्कमनीयरूपे तरूमान्मृनेरजन कामुकबाक्यमङ्गी ।